अथान्यदाह-
यष्यग्राल्लम्बोना ज्ञेया दृग्ज्या नृकेन्द्रयोर्मध्ये।
वा० भा०-नष्टद्युतेयंटेरग्रादधो यावान् लम्बस्तावांस्तस्मिन् काले शङ्कुः शङ्कुकेन्द्रयोर्मध्ये दृग्ज्या शेया। शङ्कप्राच्यपरयोरन्तरं बाहुः। प्रागपराशानरान्तरं बाहुरिति वक्ष्यति। ३०३।
केवलदिग्ज्ञाने सत्यक्षभामाह-
उदयेऽस्ते यष्ट्यग्रप्राच्यपरामध्यमग्रा स्यात् ॥ ३१ ।। |
वा० भा०-उदयकालेऽस्तकाले वा यष्टिनष्टद्युतिष्ध्रियमाणा सकलैव भूलग्ना स्यात्। एवं । यष्टयग्रप्राच्यपरयोरन्तरं त्रिज्यावृत्ते ज्यार्धवत् स्थितम् । साग्रा ज्ञया । ततः प्राग्वदुदयास्तसूत्रमिष्टकाले शङ्कश्च ।शङ्कूदयास्तसूत्रयोरन्तरं द्वादशगुणं शङ्कना भक्तं पलभा स्यात् ॥
अत्रोपपत्तिस्त्रैराशिकेन ॥ तद्यथा । यद्यस्य शङ्कोः' शङ्कूदयास्तसूत्रयोरन्तरं शङ्कुतलं भुजस्तदा द्वादशाङ्गुलस्य शङ्क: क इति ॥ फलं विषुवती भवति ।। ३०३-३१ ॥
अथोद्यन्तमर्कमदृष्टवापि -
भुजयोरेकान्यदिशोरन्तरमैक्यं रविक्षुण्णम् ।। ३२ ।। |
वा० भा० स्पष्टार्थम्।
अत्रोपपत्तिः--यत्र देशे विषुवती ४ । तत्रोत्तरगोले प्रथमशङ्कुस्त्रिशदङ्गुलो वृष्टः । तस्य याम्यो भुजः पञ्चाङ्गुलः । अन्यश्च षट्त्रशदङ्गुलः ॥। तस्य याम्यो भुजः ससाङ्गुलः । अत्राग्रया विना किल शङ्कुतल न ज्ञायते । किंतु भुजामयोर्यावदन्तरं शङ्कुतलयोरपि तावदेवान्तर भवति । तच्छङ्कुतल कल्पितम् २ । कस्य । शङकूच्छुयान्तरतुल्यस्य शङ्कः ६ । यद्यस्य शङ्कोरिदं शङ्कुतलं तदा द्वादशाङ्गुलस्य किमिति ॥ फलं पलभा ४ ॥
अथवा पलभाप्रमाणं या १ ॥ यदि द्वादशाङ्गुलस्य शङ्कोः पलभा शङ्कुतलं तदा त्रिशदइगुलस्य षट्त्रशदङ्गुलस्य वा किमिति १२ । या १ ॥ ३० ॥ १२ । या १ ॥ ३६।
शङ्क्वग्रमकैर्गुणितं विभक्तं तल्लम्बकेन स्फुटमक्षभा स्यात् । |
अन्यच्च सिद्धान्तसार्वभौमे मुनीश्वरः---
अथ त्रिज्यया मण्डल भूमिभागे समे कार्यमंशाङ्कितं तत्र केन्द्र । |