पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/511

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६९
यन्त्राध्याय:

अथ कालज्ञानमाह

तद्धनुराद्ये चरणे वर्षस्यार्कः प्रजायतेऽन्येषु ।
भार्धाच्च्युतः सभार्धो भगणात् पतितोऽब्दचरणानाम्॥ ३७ ।।
ऋतुचिन्हैज्ञानं' स्याद्ऋतुचिन्हान्यग्रतस्ततो वक्ष्ये।
भात्रितयाद्धाभ्रमणं न सदस्माद्दिक्पलाद्य च ॥ ३८ ।
छायातोऽग्रातो वा भानुः सक्रान्तिपात एव स्यात् ।
पातोनः स्फुटभानुः स्फुटभान्नो भवेत् पातः ।। ३९ ।।

 वा० भा०--अत्राग्रातस्तच्छतिविहताग्रकार्कसंगुणितेत्याविविलोमविधिना या स्फुटार्क बोज्र्यानीता तस्या यद्धनुः स रविर्भवति । एवं वर्षस्य प्रथमचरणे । द्वितीये भार्धाच्च्युतस्तृतीये सभार्धश्चतुर्थे भगणात् पतित इति व्यस्तविधिः । वर्षचरणज्ञानमृतुचिह्नः ।

 अत्रान्यैराचार्यभांत्रितयाहि ज्ञान दिग्ज्ञाने भाभ्रमरेखां चोत्पाद्य केन्द्रभाभ्रमरेखयोयंद्याम्योत्तरमन्तरं सा मध्यच्छाया । ततः क्रान्तिज्या । विलोमविधिना । तस्या रविरक्षश्रेवं वक्ष्यमाणमहाप्रश्नभङ्गार्थं यत् कृतं तदसत् ॥ कुतः । यद्भात्रितयाद्भाभ्रमणं तदपि तावदसत् ॥ अन्यान्यभाग्रहणादन्यथान्यथा भाभ्रमरेखा स्यादिति निपुणेरवलोक्यम् । भाभ्रमनाशे दिक्पलादिकमपि न घटते । अतो यष्टया शङ्कुत्रितयं ज्ञात्वेत्यादिना महाप्रश्नभङ्गो युक्तः ।

 अत्र किलोग्रातो रविज्ञति:। योऽत्राग्राप्तश्छायातो वा रविज्ञायते स सक्रान्तिपात एव स्यात् । अतः पातोनो रविर्भवति । रव्यूनश्च पातो भवतीति युक्तियुक्तम् । एवं स्फुटरवेर्मध्यमो मध्यमादहर्गणोऽहर्गणात् कल्पगतमिति कालज्ञानम् ।। इति यष्टियन्त्रम् ॥ ३७-३९ ।।


१. अध कस्यचित् पद्यम्--

मधुः पलाशाग्रभवप्रसूर्नग्रीष्मस्तु तापाज्जलदेन वर्षाः ।
 पद्मः शरत् कुन्दचर्यैर्हिमर्तुर्ज्ञेयो लवल्या शिशिरः सुधीभिः ।

२. अत्र लल्ल:-

छायात्रयाग्रभवयोर्मुखपुच्छरज्वोयोंगो यमस्य दिगुदग्द्युदलप्रभाग्रे।
 यत्र ध्रुवो धनपतेर्दिगसौ भवेद्वा तन्मत्स्यपुच्छमुखरज्जुरसिद्धसिद्धी ।
 यो मत्स्यपुच्छमुखनिर्गतरज्जुयोगस्तस्मात् प्रभात्रितयचिह्नशिरोऽवगाहिं ॥
 वृत्त लिखेन विजहाति हि तस्य रेखां छाया कुलस्थितिमिवामलवंशजा स्त्री।
                                  शि० धी० ग्र० त्रिप्र० २-३ श्लो०

अपि च

अग्रेषु चिह्नानि विधाय ' वृर्त्तमिथोऽवगाहैलिखितैस्तु तेभ्यः ॥
 न्तिमी भवेतां मुखपुच्छसत रज्जू प्रसार्यावनयोर्युतिर्या।