पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/528

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४८६
सिद्धान्तशिरोमणौ गोलाध्याये

उदाहरणम्-

ये याताधिकमासहनदिवसा ये चापि तच्छेपके
षामैक्यमवेक्ष्य जिष्णुजकृताच्छास्त्राद्यथैवागतम् ।
भृशैलेन्दुखखभ्रषट्करयुगाष्टाध्यङ्ग ६४८४२६०००१७१ तुल्यं
यदा काले कल्पगतं तदा वदति यः स ब्रह्मसिद्धान्तवित् ।। १२ ।।

 वा० भा०-अहर्गणानयने ये लवधा अधिमासाः क्षयहाश्च ये च तच्छेषके तेषामेक्यं भूशलेन्दुखखभ्रषट्करयुगाष्टाध्यङ्ग ६४८४२६०००१७१ तुल्यं कृताष्टाष्टिगोऽध्यादिभिः ८६३३७४४९१६८४ गुणितं जातम् ५५९८३४४६८२९२३२६४२२०७७९६४ । व्येक चन्दहेः १६०२९९८९९९९९९ भक्तं लब्धम् ३४९२४१९३२३३६ । जातोऽवशेषमितो गतेन्दुद्युगणः १०३० ० । अस्मात् प्राग्वदवमानि १६१ । अवमशेषं च २६७४२६००००००। सावनाहगणश्च १०१३९ । अथ पृथग्गतेन्दुद्यगणोऽधिमासेर्गुणितो युगेन्दुदिनेभंक्तो लक्षं गताधिमासाः १० । अधिमासशेषं च ३८१००००००००० । लब्धाधिमासैदिनकृते ३०० रून इन्दुद्युगणः १०३०९ । सौराहगंणो भवति १०००० । अतः कल्पगतम् । सप्तविशतिः २७ वर्षाणि । नव ६ मासाः । वश १० दिनानि ।

 अस्योपपत्तिर्जीजगणितेन–एको हरश्चेद्गुणको विभिन्नावित्यादिना । कथमस्य विषय इति चेत् । उच्यते । गतसौरदिनेभ्यो यावन्तोऽधिमासा यच्च शेषं गतचन्द्रदिनेभ्योऽपि तावन्त एव भवन्ति तावदेव चावशेषम् । अवमान्यवमर्श च चन्द्र विनेभ्य एव सिध्यति । अतस्तयोः शेषयोश्च योग मृदहृते युगाधिमासावमयोगो गुणो युगेन्दुदिनानि हरः। गतेन्दुविनप्रमाणं यावत्तावत् १ । तद्गुणेन गुणितं हरेण भक्तम् । तत्र लब्धिप्रमाणं कलकः १। तद्गुणितं हरं गुणकगुणिताद्या- वत्तावतो विशोध्य ज्ञातं शेषम् । या २६६७५८५०००० का १६०२९९६०००००० ॥ एतदधिमासावमशेषेक्यम् । यो लब्धः कालकः १ स गताधिमासावमानामैक्यम् । तच्छेषे यदि क्षिप्यते तवा चतुर्णां योगः कृतो भवति । या २६६७५८५०००० का १६०२६९८९९९९९९ । अस्य चतुर्णां योगस्योद्दिष्टयोगेन समीकरणे क्रियमाणेऽधिमासावमयोगो भाज्यः । ध्येकेन्द्रदिनानि हरः। उद्दिष्टयोग ऋणक्षेपः । एवं सति लाघवाथं रूपशुद्धावाचार्येण स्थिरः कुट्टकः कृतः । स च कृताष्टाष्टत्यवि ।। १०-१२ ।

 व० वा०-सशेषाधिमासावमदिनैक्यज्ञानात् कल्पगतदिनगणं यो वक्ति तत्प्रशंसामाह - ये याताधिकमासहीनदिवसा इति । अत्र सूत्रमाह

 कृताष्टाष्टिगोब्ध्यब्धिशैलामरडॅद्विपने सशेषाधिमासावमैक्ये ।

 भवेद्व्येकचन्द्राहभक्तेऽवशेषं गतेन्दुद्युराशिरिति ।

 अत्र कल्पगतचान्द्रप्रमाणमव्यक्तमेकं या १ कल्पितम् । यदि कल्पचान्द्रं: कल्पाधमासा लभ्यन्ते तदा यावत्तावता किमिति लब्धं गताधिमासाः शेषमधिशेषम् ।