पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/532

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४९०
सिद्धान्तशिरोमणौ गोलाध्याये

लब्धं रामनखाद्रिलोचनरसत्र्यडूद्धि २९३६२७२०३ निघ्नं ततः ।
पश्चाद्रित्रिनवाद्रिसागरयुगाच्छिद्राग्निभिः ३०४४७९३७५ संभजे
च्छेषं स्याद्द्युगणो हरेण स युतो यावद्भवेदीप्सितः ॥ १५ ।।

 अस्योदाहरणम्

पञ्चत्रिंशदहो सखे दिविषदां चक्रादिशेषाणि या
न्येषां सावमशेषमैक्यमपि यद्धीवृद्विदे जायते । ।
तत् तष्टं कुदिनैः खखेषुभरविच्छिद्रेन्द्र १४९१२२७५०० तुल्यं गुरो
रिन्दोर्वाह्नि कुजस्य वा वद यदा कीदृग्द्युपिण्डस्तदा ॥ १६ ।।

 वा०भा०-धीवृद्धिदे तन्त्रे ग्रहाणां चक्रादिशेषाणि मिलितान्यवमशेषयुतानि च १४९१२२७५०० । एतानि किलोद्दिष्टानि चतुर्भािवभज्य लब्धं रामनखाद्रिलोचनरसत्र्यडूद्विभिः २९३६२७२०३ संगुण्य पञ्चाद्वित्रिनवाद्रिसागरयुगच्छिद्राग्नि ३९४४७९३७५ भिविभज्य । शेषमहर्गणो जातः खखाभ्रदिङ्मितः १०००० ॥ अयं जातः कुजदिने ॥ द्विगुणे हरे क्षिसे जातः सोमवासरे ७८८९६८७५० । त्रिगुणे क्षिसे जातो गुरुदिने ११८३४४८१२५ ॥

 अत्रोपपतिः- एको हरश्चेद्गुणकी विभिन्नावित्यनेनैव । अत्र गुणकाविति द्विवचनमुपलक्षणार्थम् । तेन बहुगुणानामैक्यं गुणो भवति । अग्राणामैक्यमग्रम् । तद्यथा ॥ रूपमहर्गणं प्रकल्प्य ग्रहाणां चक्रादिशेषाण्यानीय तेषामैक्यं युगावमयुतं भाज्यः कल्प्यः । कुदिनानि हरः । उद्दिष्टषद्त्रिशच्छेषाणां योग ऋणक्षेपः । एषां भाज्यहारक्षेपाणां चतुभिरपवर्तः कृतः । ततो लाघवार्थं रूपशुद्धी लब्ध रामनखाद्रीत्यादिस्थिरकुट्टकः कृत:' । १३-१६ ।

 वा० वा०-यः षट्त्रशच्छेषाणामैक्यं कुदिनतष्टं दृष्ट्वा ग्रहानहगणांश्च वदति तत्प्रशंसामाह–चक्राग्राणीति । षट्त्रिशत् सहितानीति ।

 अत्र सूत्रमाह-उद्दिष्टं क्वहितष्टमिति । अत्राहर्गणप्रमाणं यावत् । या १ यदि कल्पकुदिनैः कल्पग्रहभगणास्तदा यावत्तावता किमिति ससग्रहभगणेषु गुणकत्वेन गृहीतेषु लब्धयः प्रत्येकग्रहगतभगणाः शेषाणि तत्तद्ग्रहभगणशेषाणि भवन्ति ।

 एवं कल्पकुदिनैस्तत्तद्ग्रहाणां कल्पभगणजनिता राशयोंऽशाः कलाविकलाश्च लभ्यन्ते तदाह.गणेन किमिति ग्रहाणां कल्पादितो गतराशयो गतांशा गतकलिकागतविकलिकाश्च भवन्ति । अत्र शेषाणि राश्यादिशेषाणि भवन्ति । एकैकग्रहस्य पञ्चशेषाणीति सप्तानां पञ्चत्रिशच्छेषाणि पञ्चत्रिशदनुपातैर्भवन्ति । सर्वत्राहर्गणो गुणः


१. बापूदेवोक्तः प्रश्नः--

 सूर्यन्दुसौरयो मध्याः समा भूत्वा पुनः कदा । भवेयुस्ताद्दशा एव विचक्षण वद द्रुतम् ।

अस्य मङ्गश्व

 कल्पे येऽकब्जयोर्योगा ये च तीक्ष्णांशुमन्दयोः । ते केनचित् समेनैव विघेया अपवर्तिताः ॥ तत्र प्रथमलब्धेन समानैः शशिमासकै: ।। सूर्येन्दुसौरयो मध्या मवेयुस्ते पुनः समाः ॥