पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/533

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४९१
प्रश्नाध्याय:

कल्पकुदिनानि हरः । अवमशेषानयने गुणहरावेतावेव । 'एकोहरश्चेद् गुणकौ विभिन्नाविति' न्यायेन षट्त्रशन्मितगुणानां योगो गुणः कल्पितः ।

 ननु गुणकाविति द्विवचनस्य विवक्षितत्वात् कथं गुणानां योगो गुणः कल्पित इत्यत आह भाष्यकार उपलक्षणमेतद् द्विवचनम् । अनेन गुणयोगेन कल्पकुदिनभत्ते लब्धियोगप्रमाण कालकः। का १ लब्धियोगगुण हरं गुणगुणिताद्राशेरपास्य जातं शेषैक्यम् । या गु १ का १५७७९१६४५०००० इदमुद्दिष्टयुतिसममिति पक्षे शोधने कृते रूपं क्षेपं प्रकल्प्य भाज्यहारक्षेपांश्चतुभरपवत्र्य च गुणाप्ती साधिते । अत्र लब्धिर्यावत्तावन्मानमिति ‘रामनखाद्रिलोचनरसत्र्यङ्कद्विनिघ्नमित्युक्तम्' । ‘येन छिन्नौ भाज्यहारौ न तेन क्षेपश्चैतद्दुष्टमुद्दिष्टमेवेत्यत आह-उद्दिष्टं क्वहतष्टमम्बुधिहृतं शुद्धचेन्न चेत्। तत्खिलमिति ।

 *अभीप्सितक्षेपविशुद्धिनिध्ने स्वहारतप्टे भवतस्तयोस्त इत्यनेन कालकाङ्गो हरोऽस्येति स्पष्ट एवं द्युगणः सिद्धस्तत *इष्टाहतस्वस्वहरेण युक्ते ते वा भवेतां बहुधागुणासी ।


इत्यनेनेष्टवासरे द्युगणाः भवन्ति ।
अहर्गणे ज्ञाते ग्रहज्ञानं सुगमम् । अत्रोदाहरणमाह- पञ्चत्रिशदिति ॥ १३-१६ ।।

इदानी निरग्रचक्रादपि ग्रहादहर्गणमाह -

लितार्ध दशयुग्भवन्ति विकलास्तासां वियोगस्त्रियुगू
भागा भागदलं गृहाणि शशिनः । खत्रीन्दवस्तद्युतिः ।
दृष्टा चन्द्रदिने कदा वद पुनस्तादृक् च काव्याहनि |-
व्यक्ताव्यक्तविविक्तयुक्तिगणितं विद्वन् विजानासि चेत् ॥ १७ ।

अस्य भङ्गः:*-


१. ली० कु० १३ श्लो० । २. ली० कु० १३ श्लो० । ३. ली० कु० १० श्लो० । ४. अत्र बापूदेवोक्तः प्रश्नः--

राश्यादेविंकला दृढकुदिनगुणाश्वक्रविकलिकाभक्ताः ।
शेषाभावे विकलाशेषाभावोऽत्र विज्ञेय: ॥
यल्लब्धं तद्भगणोर्वरितं स्याच्छेषसत्वे तु । शेषत्यागे लब्धं रूपयुतं मगणशेषं स्यात् ॥
शेषोनहरो विकलाशेष तस्मिन् दृढक्वहाभ्यधिके ।
ज्ञेयः स खिलः खेटस्त्वखिले विकलाग्रतो द्युगणः ॥
येनेप्टेन क्षुण्णाश्वक्रविकलिका विलसिकाग्रयुताः ।
दृढकुदिनाल्पास्तद्युतचक्राग्रं सा दृढक्वहाल्पयुतिः ।
क्रमशः पययशेष विकलाशेषं च वा भवति ।
तस्माद्द्युगणो वेष्टाहतदृढकुदिनयुगनेकधा स स्यातू ॥

एतादृशं भङ्गं साधुं मन्यते ।