पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/539

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४९७
प्रशन्नध्यायः

 एवं भाज्यशेषेण भाजके हृते रूपं शेष न स्यातदा भाजकशेषेण भाज्यशेष हरणीयम्। एवं क्रमेण यत्रव रूपशेष भाज्ये तस्माद्विलोमप्रकारेण लब्धिगुणौ ज्ञेयाविति स्पष्टम् ।

 अत एवोक्त ‘मिथो' भजेत्तौ दृढभाज्यहारौ यावद्विभाज्ये भवतीह रूपमिति'।

  यत्र भाज्ये रूपं शेषं तत्र क्षेपस्याधनता । ततः पूर्वभाज्ये क्षेपस्य धनतेत्यत उत्तं चेद्विषमास्तदानीं यथागतौ लब्धिगुणौ विशोध्यौ स्वतःक्षणादिति' ! अत्र भाज्यतुल्ये लब्धेरुपचये भाजकतुल्यो गुणोपचयस्तदपचये तदपचय इति प्रोत ‘स्वोध्वों३ विभाज्येन दृढेन तष्टः फलं गुणः स्यादपरो हरेणेति' । ‘*इष्टाहतस्वस्वहरेण युक्ते’ इति । 'गुणलब्ध्योः समं ग्राह्यमिति' च ।

 अत्र भाज्यहारक्षेपानां धनत्वं प्रकल्ष्य गुणाप्ती साध्ये । ते तत्क्षणाच्छुद्धे ऋणक्षेपे भवतः । पुनस्तक्षणाच्छुद्धे ऋणक्षेपे च भवतः । भाजकस्य क्षयगतत्वेऽपि न तत्क्षणशोधनं किन्तु लब्धिः क्षयगतेति विशेषः ।

 'मिथो भजेतौ। भाज्यहारौ तावद्यावद्विभाज्ये रूपं भवतीति। यदा तु भाज्यभाजकयोः परस्परभञ्जने निःशेषता स्यात्तत्र रूपशेषत्वाभावाद् गुणलब्धिज्ञानमशक्यं स्यादित्यपवर्त्तनमावश्यकम् । अपवर्त्ताङ्कज्ञानेऽपीयमेव युक्तिः । भाज्ये भाजकभक्ते यच्छेषं तेन भाजको हतो निःशेषःस्यात्तदा भाज्यशेषमेवापवत्तङ्कः । यतो भाज्यभाजकयोरपवर्त इति भाज्ये भाजकभक्त या लब्धिस्तद्गुणभाजकतुल्यमेकं खण्डम् । .. शेषतुल्यमपरञ्च ।

 तत्र भाजकस्य येनापवर्तस्तेन प्रथमखण्डस्य सुतरां स्यात् । तेन भाज्यशेषेण भाजको हार्यो यदि निःशेषा लब्धिस्तदा भाज्यशेषमेवापवत्ताङ्क स्यात् ।

 भाज्यशेषेण भाजके हृते निःशेषलब्धिन स्यातदा भाजकशेषेण भाज्यशेषे हृते यदि निःशेषलब्धिर्भवति तदा भाजकशेषमेवापवर्ताङ्गः स्यात् ।

 अत्र भाज्यभाजकयोरपवर्त इति भाज्यस्य खण्डद्वयम् । एकं गुणकगुणभाज्यतुल्यम् । द्वितीयं क्षेपतुल्यम् । गुणकगुणभाज्यस्यापवर्तेऽपर्वाततभाज्यस्य गुणकगुणने वा फलाविशेषाद्गुणकाज्ञानाच्च ६'भाज्यो हारः क्षेपकश्चापवत्र्य' इत्युतम्|


१. ली० कु० ३ श्लो० ।

२. ली० कु० ५ श्लो० ।

३. ली० कु० ४ श्लो० । किन्तु मु० पु० 'ऊध्वों विभाज्येन' 'स्यादधरो हरेण' इति पाठान्तरमू ।

४. ली० कु० १० श्लो० ।

Կ.ली० कु० ७ श्लो० ।

६. ली० कु० १ श्लो० । सि० - ६३