पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/54

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सिम्-२
मध्यमाधिकारे कालमानाध्यायः

गण्यते सङ्ख्यायते तद् गणितं तत्प्रतिपादकत्वेन तत्संज्ञं शास्त्रमुच्यते । तत्र व्यक्तन स्पष्ट्रेनोच्चावचजनप्रसिद्धमार्गेण सडूलनादिना यदुच्यते तद्व्यक्तम् । यावत्तावदादिवर्णकल्पनासापेक्षबुद्ध्या गणितमव्यक्तम् । ग्रहकर्मणा ग्रहगणितम् । गोलेन वेधादिना ग्रहकर्म सवासनं गण्यत इति गोलाश्रितत्वाद्गोलगणितम् । गणितचतुष्टयात्मको गणितस्कन्धः । कालविधानशास्त्रापरपर्यायं ग्रहगणितमेव गणितस्कन्धः । स चाध्येतव्यः । अत्र वासनावगतिपूर्वकोऽध्ययनविधिव्यापार' इति । एतद्गणितत्रयं ग्रहगणितवासनायामुपयुक्तम्। अतो गणितचतुष्टयात्मकत्वं गणितस्कन्धस्य व्यवहरन्ति स एव सिद्धान्त इति। तथा चाहु:२।

व्यक्ताव्यत्तभगोलवासनमयः सिद्धान्त अादिरिति ।

आचायोंऽपि *-

गणितस्कन्धसन्दर्भा दर्भगभग्रधीमतः ।
उचितोऽनुचितो यन्मे धाष्टर्यं तत् क्षम्यतां विदः ।

इति सिद्धान्तं गणितस्कन्धत्वेन व्यावहरत् * ( व्यवाहरत् ) ग्रहतिथिसारिण्यो यन्त्रादि सर्वमत्रैवान्तर्भूतम्' । अन्ये त्वेवमिच्छन्ति यत्र कल्पादेर्ग्रहानयनं स सिद्धान्तः । यत्र युगादेस्तत् तन्त्रम् । यत्र शकादेस्तत् करणमिति । अभियुक्तास्तु* सिद्धान्ततन्त्रशब्दाभ्यां गणितस्कन्धतदेकदेशावभिधीयेते । होराशब्दो लग्नतदर्धयोरिवेत्याहुः° । उभयथाप्यभियुक्तिप्रसिद्धिदर्शनात् । तन्त्रशब्देन ग्रहगणितस्कन्धं वराहो व्यावहरत् । (व्यवाहरत् ? ) सांवत्सरसूत्रे तेनोक्तम्। तत्र ग्रहगणिते पौलिशरोमक-वशिष्ठ-सौर्यपैतामहेषु पञ्चस्वेतेषु सिद्धान्तेषु युगवर्षायनर्तुमासपक्षाहोरात्र-याम-मुहूर्त-नाडी-विनाडीप्राणवुट्याद्यवयवाद्यस्यं कालस्य क्षेत्रस्य च वेत्ता चतुर्णा च मासानां सौर-सावननाक्षत्र-चान्द्राणामधिमासकावमसंभवस्य च कारणाभिज्ञ इत्यादिना ग्रन्थसन्दभेण एतानि समस्तानि व्यस्तानि वा यत्र भवन्ति स सिद्धान्त इति लक्षण युक्तम् । बुधैरुदाहृत इत्यनेन यत्राभियुक्तानां सिद्धान्तत्वप्रसिद्धिः स सिद्धान्त' इति द्योतितम् ।


१. सम्यग्रज्ञानपूर्वकत्वे सति अध्ययनानुकूल व्यापार इति । २. चाङ्ग क० पु० । ३- आचार्यापि, ख पु० । ४. व्याव्यवहरत्। ख ग पु० । ५. त्रैकतभूत ख पु० ॥ ६. पूर्वग्रन्थ कर्तार इति । ७. वेत्याङ्गः क पुo । ' ८ तृद्यवय क ख ग पु० । ९. श्रीपतिकृतसिद्धांन्तशेश्वरे सिद्धान्तलक्षणं यथा-- शतानन्दघ्वस्प्रिभृतित्रुटिपर्यन्तसमयप्रमाणं भूधिष्ण्यग्रहनिवहसंस्थानकथनम् । ग्रहेन्द्राणां चाराः सकलगणितं यत्र गदितं स सिद्धान्तः प्रोक्तो विपुलगणितस्कन्धकुशलैः ॥ ( १ अ० ३ श्लो० ) अन्यच्च वटेश्वरसिद्धान्ते समयमितिरशेषा सावनं खेचराणां गणितमखिलमुत्तं यत्र कुट्टाद्युपेतम्। ग्रहभगणमहीनां संस्थितिर्यत्र सम्यक् स खलु मुनिवरिष्ठैः स्पष्टराद्धान्त उत्तः' । (मध्यमा० ५ श्लो०)