पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/541

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४९९
प्रश्नाध्यायः

 सूत्रविषयं परिहृत्यैव प्रवृत्तमित्यपवर्तनाप्राप्तिमिच्छन्तो बुधा 'उद्दिष्ट कुट्टके तज्ज्ञैरिति’ सूत्रं व्यर्थमित्याहुः प्राप्तिपूर्वकत्वान्निषेधस्य ।

 अथवा बालावबोधार्थमिदं सूत्र 'योगजे तत्छणाच्छुद्ध गुणातीस्तो वियोगजे' इति ‘सूत्रेणैव सिद्ध ‘धनभाज्योद्भवे तद्वदिति’ सूत्रमिव ॥ २२-२४ ।।

   इदानी देशविशेषमुद्दिश्य पलाशप्रश्नानाह—

    प्राच्यामुञ्जयिनीपुरात् कुपरिधेस्तुर्योऽशके यत् पुरं

   तस्मात् पश्चिमतोऽपि तावति ततोऽप्यन्यत् पुरारेर्दिशि ।

   नैऋत्यां यदतोऽपि तेपु नगरेष्वाचस्व मेऽक्षांशकान्

   गोलक्षेत्रविचक्षण क्षणमिदं संचिन्त्य चित्ते मुहुः ।। २९ ।

   अस्य भङ्गः--

    दिग्ज्यापलभाक्षुण्णे त्रिज्याकहते चबाहुकोटिज्ये।

   अपसुतियोजनलवजे तदन्तरं दक्षिणे भागे ॥ २६ ।

   ऐक्यं सौम्ये भूमेव्यस्त पादाधिकेऽपसरे।

   रविगुणमक्षश्रवसा भक्ततं तच्चापमक्षांशाः ॥ २७ ।।

   वा० भा०-अत्र तद्देशवशेन दिशो शेयाः । न स्वदेशवशेन । अत्र प्रथमे प्रश्नेऽपसारयोजनलवा नवतिः ९० तद्दोज्र्या त्रिज्या ३४३८ । कोटिज्या पूर्णम् ० ॥ दिग्ज्यादोज्र्ययोर्घातः पूर्णम् ० ॥ कोटिज्यापलभयोर्घातश्च पूर्णम् ० । एते त्रिज्ययार्कश्च यथाक्रमं हृते तथापि शून्ये एव ० ।। ० ।। तयोर्योगे वियोगे वा शून्यमेव ० । एतद्रविगुणमक्षश्रवणहृतं शून्यमेव । अतो यमकोटिपत्तने शून्यं पलशः o

   सथ द्वितीयप्रश्नेऽप्येवं शून्यं पलांशाः ॥ अतो यमकोटेः प्रतीच्यां लङ्कव ॥

   अथ तृतीयप्रश्ने दिग्ज्या २४३१ । इयमपसारदोष्ज्र्यया त्रिज्यामितया गुण्या त्रिज्यया च भाज्या । अत इयमेव २४३१ लङ्कायां पलभा पूर्णम् ० । तद्गुणार्कहृता च कोटिज्या पूर्णम् । तयोयोंगस्तादृश एव २४३१ । इयंमकंगुणा लड्राक्षकर्ण १२ हृतांवकृतैव २४३१ दोज्यां । अस्याश्चापं पलांशाः ४५ । यत्रैते पलांशास्तत्र पलभा १२ । पलकर्णश्च १६ ।। ५८ ॥ १४ ॥

   अथ चतुर्थप्रश्ने सैव दिग्ज्या २४३१ । तथैवोक्तविधौ कृतेऽविकृतैव । कितु इयमर्क. गुणाक्षकर्ण १६।। ५८ । १४ हृता । अस्याश्चापं पलांशाः ३० ॥ २५-२७ ।

   वा० वा०-अथ मध्यरेखास्थनगराक्षांशज्ञानेऽपसारयोजनदिग्ज्ययोज्ञनेि चेष्टनगराक्षांशज्ञानं कथं स्यादिति पृच्छति प्राच्यामुज्जयिनी पुरात् कुपरिधेरिति ॥

   अत्र सूत्रमाह

   दिग्ज्यापलभाक्षुण्णे त्रिज्यार्कहते च बाहुकोटिज्ये इति । ऐक्यमिति।

   अत्र खस्वस्तिकमुज्जयिन्यादिपुरं प्रकल्प्येष्टनगराक्षांशतुल्येनान्तरेण नाडीमण्डलाद्द्युरात्रवृत्तवद्वृत्तं गोले निवेशनीयम् । खस्वस्तिकप्रोतदिङ्मण्डलेऽपसारयो-. जनलवाग्रचिह्न कार्यम् ।