पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/544

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५०२
सिद्धान्तशिरोमणी गोलाध्याये

सह यत्र संपातस्तत्प्राच्पपरयोरन्तरमग्रा ॥ यत्रोन्मण्डले लग्नं तत्प्राच्यपरयोरन्तरं पलांशाः क्रान्तिरूपाः । अथ तज्ज्ञानार्थमपसारलवाना कोटिज्या । स पुरचिह्नाल्लम्बः शङ्कु । स पलभया गुण्यो द्वादशभक्तो जातं शङ्कुतलम् । उत्तरगोल उत्तरभुजस्य शङ्कुंतलस्य च योगेऽग्रा भवति । तदन्यथान्तरे कृते सत्यग्रा । अतो वैपरीत्येन क्रान्तिः । तदर्थमनुपातः' । यदि पलकर्णे द्वादश कोटिर्लभ्यते तदाग्रया किमिति । फल क्रान्तिज्यारूपाक्षज्या। अतस्तच्चापमक्षांशा इत्युपपन्नम् । भूमेः पादाधिकेऽपसारेऽतो व्यस्तं यतो विषुवद्वृत्तमधः सममण्डलादुत्तरतः ॥२८॥

  । वा० वा०-दिक्शूलादिविचारे गन्तव्यनगरदिड़निर्णयो दिग्ज्ययैव भवति। क्षितिपरिधिषडंशे प्राचि धारा नगर्या इति ॥ 'दिग्ज्यापलभा क्षुण्णे' इति सूत्रेष्णानयनं पूर्ववत् ॥ २८ ।।

  अथोक्तानपि प्रश्नानेकीकतुमाह'

   मित्र मित्रखिनेत्रस्य दिश्युद्भमं याति यत्र त्रिनेत्रक्षमध्यस्थितः ।

   तत्र मे तान्त्रिकाक्षुब्धमक्षप्रभां क्षिप्रमाचक्ष्व दक्षोऽसि गोले यदि ॥२९॥

     एकद्वित्रिचतुःपञ्चषड्भयंत्रोदितो रविः ।

    मासैरस्तमयं यातितत्राक्षांशान् पृथग्वद । ३० ॥


१ अत्र बापूदेवोक्तः प्रश्नः--

  पलमाज्ञः सहस्रांशोरुन्नतांशान् दिशं च यः । अवलोक्य वदेत् क्रान्ति स वै गाणितिकोत्तमः ॥

अस्य मङ्ग :-

  इटच्छायाहता दिग्ज्या पलभाघ्नत्रिभज्यका । ताभ्यामक्षीन्दुनिघ्नीभ्यामिष्टकर्णाक्षकर्णयोः ।

  घातेनावासियोयोंगो यदि सौम्या दिगंशका: ।

   अन्यथा त्वन्तरं सौम्या याम्या क्रान्तिज्यका क्रमात् ।

  याम्यदिग्मागसत्वेऽपि प्रथमावासमेव चेत् । द्वितीयावासतः शुध्येत् तदा सौम्यापमज्यका ॥

अत्र श्रीम० देवोक्तः प्रश्नः--

  लङ्कायां स्वपुरे चैककाले यद्धमुदेष्यति। तस्य क्रान्ति समाचक्ष्व गोले चेत्। ते तता मतिः।

अस्य भङ्गः

  देशान्तरोत्थो यः कालस्तन्नताख्यं प्रकल्पयेत् । नतकोटिज्यका सूर्यंहंताऽक्षश्रुतिभाजिता ॥

  तस्याश्वापं पराख्यं स्याल्लम्बज्या नतजीवया । गुणिता परकोटिज्याविहृता तद्धनुर्लवाः ॥

  क्रान्त्यंशा उत्तरा याम्याः परपूर्वनते क्रमात् । ज्ञया ऋक्षस्य ते ह्यत्र जिनाल्पाश्चेद्रवेरपि ॥

बापूदेवोक्तः प्रश्नः—

  चरापमांशसंयोगं विलोक्याग्रांशकांश्च यः । चरक्रान्ती पृथक् तूर्णं वदेत् स गणकोत्तमः ।

अस्य भङ्ग

  द्विनिध्न्यग्रकाभागखाङ्कान्तरज्या चरापक्रमैक्यस्य कोटिज्ययोना ।

  ` युतिः शेषचापस्य कोटच्या युतोना द्विभक्ता चरक्रान्तिभागाः पृथक् स्युः ।

  अधिकन्यूनभावं तु चराष्पक्रमयोः किल । प्रच्छकेच्छावशादेव गणकोऽत्र प्रजल्पयेत् ॥