वा० वा०-मित्रमित्रस्त्रिनेत्रस्य दिश्युद्गममिति । अाद्रनक्षत्रमध्यस्थितः सूर्यं इति क्रान्तिज्या ज्ञाता ।। सूर्यं इति सायन एव । त्रिनेत्रदिशीत्यनेन दिग्ज्या ज्ञाता । अत्र दिग्ज्यैवाकग्रा । यद्यग्रातुल्येन कर्णेन क्रान्तिज्याकोटिस्तदा त्रिज्याकर्णे का कोटिरिति लम्बज्या ततो लम्बाशा अक्षाशाश्च । लम्बज्याकोटौ पलज्या भुजस्तदा द्वादशकोटौ को भुज इत्यक्षभा ।
एकद्वित्रिचतुःपञ्चषड्भर्यत्रेति । यत्र मिथुनाद्धदग्रे स्थितार्कस्य क्रान्तिर्लम्बाधिका तत्र सततं मासमेकं दिनं सूर्यस्य तदा क्षितिजोपर्येव स्थितत्वात् ।
मिथुनादेरग्रे स्थितार्कस्य क्रान्तिर्लम्बाधिका तत्र मासद्वयमितं दिनं यतो यान्येव मिथुनद्युरात्राणि तान्येव कर्कद्युरात्रवलयानि ।
एवं वृषभाद्धदग्रे स्थितार्कस्य क्रान्तिलम्बाधिका तत्र मासद्वयमितं दिनं यतो यान्येव मिथुनद्युरात्राणि तान्येव कर्कद्युरात्रवलयानि ।
एवं वृषभाद्धदिग्रे स्थितार्कस्य क्रान्तिलम्बाधिका तत्र मासत्रयं दिनम् ॥
यत्र वृषभादेरग्रे स्थितार्कस्य क्रान्तिलम्बाधिका तत्र मासचतुष्टयम् ।
यत्र मेषाद्धदिग्रे स्थितार्कस्य क्रान्तिलम्बाधिका तत्र मासपञ्चकं दिनम् ॥
यत्र मेषादेरग्रे स्थितार्कस्य सायनस्य क्रान्तिलम्बाधिका तत्र मासषट्कं दिनम् ।
अत्र मिथुनार्द्धक्रान्तितुल्यलम्बांशेषु नवतिच्युतेषु यच्छेषं तत्तुल्याक्षांशेषु मासमेकं दिनमेवं सर्वत्र ज्ञातव्यम् ॥ २९-३० ।।
प्र२न: -
तारकयोः प्रत्येकं ध्रुवकक्षेपौ कदम्बसूत्रोत्थौ ॥
अवलोक्य तयोरन्तरमाकाशे कि मवेद्वद क्षिप्रमू ।
अस्य भङ्गः---
यदन्तरं भन्नुवयोः किलाल्पं तत्कोटिजीवा शरकोटिजाभ्याम् ।
ज्याम्यां हताद्यः शरयोश्चः मौव्योंहतिस्त्रिभज्यागुणिता परः स्यात् ।
तयोर्युतिर्मार्गणतुल्यदिक्त्वे विभिन्नदिक्त्वे वियुतिविधेया ।
तस्या यदासं त्रिगुणस्य कृत्या तच्चापकोटिभंयुगन्तरं स्यात् ।
चेदाद्य एव वियुतो हि पराद्विशुद्धयेदासस्य चापमिह खाडूंयुगन्तरं स्यात् ।
यद्यन्तरं ध्रुवकयोरधिकं नवत्या योगेऽन्तरो च विदधीत सुधीविलोमम् ॥
विषुवांशस्फुटक्रान्तीरपि प्रत्येकमृक्षयोः । अवलोक्य सुधीरेवं जानीयादन्तरं तयोः ॥
प्र२न: -
ग्रहस्य मध्यमां क्रान्तिं शरं चालोक्य बुद्धिमन् ।
स्पष्टापमज्यकां विद्धि गोलेऽसि निपुणो यदि।
अस्य भङ्ग :-
ग्रहस्यास्फुटक्रान्तिजीवेषुकोटिज्यकाघ्नी त्रिभज्योद्घृताथो शरज्या ।
त्रिभद्युज्यकाघ्नी त्रिमज्याविभक्ता तयोः संस्कृतेः स्यात् स्फुटक्रान्तिजीवा ॥