नाक्षत्रा उत सावनास्तनुकृती नाडयोऽथ चेन् सावना
नाक्षत्रा उदयाः कथं विसदृशास्ताभ्यो विशोध्या वद ।।
नाचत्रा यदि तद्द्युरात्रसदृशे काले गतेऽकाधिकं
किं लग्नं न समं ततो दिनकरस्तात्कालिक: किं कृत:।।३७।।
वा० वा०-अथ तात्कालिकार्ककरणप्रश्नमाह-आस्तामिति । लग्नं तात्कालिकाकत् िसाध्यते । तन्नाक्षत्रघटीभिरेव कर्त्तव्यमुदयानां नाक्षत्रत्वात् ।। सूर्यसावनमध्ये नाक्षत्रघटीषष्टिर्दशपलयुता भवति ।। सूर्योदये सूर्यतुल्यमेव लग्नं भवति नाधिकम् । तत्र तात्कालिकाकाद्दशपलयुतघटीषष्ट्या साध्यमानं लग्नं तात्कालिकाकादप्यधिकं स्यात् ।
किञ्चाष्टनवपलयुतयापि घटीषष्ट्यां साधितं लग्नं तात्कालिकाकदधिकं स्यादित्यनिष्टम्। अत उत्त। 'पलोनेऽपि" तद् द्युरात्रे तात्कालिकाकल्लिग्नं किमधिकमिति तस्मात्तात्कालिकार्ककरणमयुक्तमिति स्पष्टं व्युत्पादयति ‘नाक्षत्रा उत सावनाः? इति ।
'तद् द्युरात्रसदृशे काले' इत्यत्र दशपलयुतघटीषष्टिमिते काल इत्यर्थ: । अस्यो त्तरं प्रागभिहितम् । अत्र त्रिप्रश्नोदाहृतप्रश्ना लिखितास्तेषामुत्तराणि प्रागभिहितान्येव । तेषामुपपत्तिव्र्यक्ताव्यक्तप्रकारेण त्रिप्रश्नभाष्ये स्पष्टमभिहिता सैवात्र वेद्या ॥ ३६-३७ ।।
आकाशमध्यविषुवाख्यलवाः प्रकल्प्योंऽशाद्यो रविस्तदपमज्यकयाकनिघून्या ।
तत्सूर्यगोलवशतो रहिताथ युक्ता कार्याक्षभाहतपरापमकोटिजीवा ।
ततोऽक्षश्रवसा लब्धं दृकक्षेपो यमदिग्मवेत् । वियोगेऽत्र विलोमा चेच्छुद्धिज्ञेयस्तदोत्तरः ।
ततो वित्रिभस्य श्रुर्ति साधयित्वा तया कल्पिताहर्पतेः कोटिजीवाम् |
निहत्याक्षकर्णेन भक्त्वा यदासं भवेद्धीमता तद्धनुः संविधेयम् ।
धनुषा तेन हीनाढ़चं भषट्क कल्पिते रवौ ।
मृगकक्र्यादिषड्भस्थे क्रमात् स्यात् सायना तनूः ।
एवं तदा यदा राशित्रितयद्युज्यया हतात् ।
दृक्क्षेपात् त्रिज्यया लब्धमल्पमक्षगुणाद् भवेत् ।
अन्यथा धनुषा तेन चक्रतं हीनयुतं क्रमात् । कर्किनक्रादिषड्भस्थे कल्पितेऽर्के भवेत् तनुः ॥
श्रीम० देवोक्तोऽयमत्र विशेषः---
स्फुटमेवमवाचीने दृक्क्षेपे विदुषामिदम् । विलोमशुद्ध्या सिद्धे तु सौम्ये व्यस्तमपि स्फुटम् ।
एवं सति च केनापि यः पुरोमागिनेरितः । दोषात्तत्र स्फुटं मूलं गोलतत्त्वानभिज्ञता ॥
श्रीम० देवोत्तो लग्नानयनप्रकार:-
या सायनाकस्य भुजज्यकेतिप्रकारतो ये विषुवाख्यभागाः ।
खमध्यजास्तानू रविमंशिकाद्य प्रकल्प्य तत्कोटिगुणोऽर्कनिध्नः ॥
सि० - ६४