पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/548

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५०६
सिद्धान्तशिरोमणौ गोलाध्याये

  हृतोऽक्षकणेंन फलस्य चापमाद्यस्त्रिभज्यागुणिताक्षमीव्र्याः ।

  यदाद्यकोटिज्यकया फलं तच्चापोनखाडूः परमापमांर्शः ॥

  युतोनिता गोलवशात् स्वकीयत्रयीतनोस्तत् परसंज्ञकं स्यात् ।

  तज्ज्याकनिघ्नी त्रिभमौविंकासा हताद्यकोटिज्यकयाद्यमौव्र्या ॥

  भक्ता फलं तत् पलमां प्रकल्प्य येऽक्षांशकास्तेस्युरभीष्टसंज्ञाः ।

   तेऽग्न्यङ्कनन्दाग्निगृहे निजाकपदक्रमाद्युग्वियुगाढयहीनाः ।

  धनर्णताया विपरीतता स्यात् सिध्येत् परो यत्र विलोमशुध्या ।

   तथायनांशै रहिता तनुः स्यात् स्फुटं किलेदं सुधियावगम्यम् ।

बापूदेवोक्तः प्रश्नः--

  विढ्वैकस्मिन् यः कपाले द्विवारं ज्ञातक्रान्तेर्भास्करस्योन्नताशान्।

   ज्ञात्वा वेधानेहसोरन्तरं च वेत्त्यक्षांशान् स प्रवीणोऽस्ति गोले ॥

अस्य भङ्गः:-

  वेधकालान्तरार्धस्य शिञ्जनी द्युज्यया हता । त्रिज्यामत्तासचापं च द्विघ्नं स्यादाद्यसंज्ञकम् ।

  वेधकालान्तरस्य ज्या द्युशिञ्जिन्या समाहता ।

  भक्ताद्यजीवयासस्य कार्मुकं स्यात् पराभिधम् ।

   आद्यकोटिज्यकाघ्नेन लघुना शङ्कनोनितः ।

  त्रिज्यानिघ्नो महान् शङ्कुस्तस्मात् त्रिज्यकया हतात्।

   महत्या दृग्ज्ययाद्यज्याघ्न्यासस्य धनुषा परः ।

  गोलयोर्युग्वियुक् कार्यस्तस्य दोज्य द्युजीवया ॥

   महत्या नतमौव्य च गुणिताथ त्रिभज्यया। क्रान्तिज्यालघुशङ्कभ्यां हतयाढघोनिता ततः ।

  त्रिज्यावर्गेण लब्धस्य चापं स्युः पलभागकाः । एवं ज्ञातापमीदृक्षादप्यक्षावगमः स्फुटः ।

श्रीम०देवसतीथ्यविनायकशास्त्रिणा सङ्गृहीतोऽत्र विशेषः

  उदग्गोले परेणोनाच्चापाच्च सति सम्मवे । स्युरत्रैवं द्विधाक्षांशा अन्वशिक्षं गुरोरिदम् ॥

तदुक्तं प्रकारान्तरान्तरं च

  वेधकालान्तर स्वेष्टं तद्व्यस्तज्यापमज्यया ।

   क्षुण्णा स्यात् प्रथमः शङ्क्वोर्योगान्तरवधाः क्रमात् ॥

   द्वितीयाद्याः स्युरिष्टज्याविहृतः सर्व एव ते । प्रथमत्रिज्ययोर्वर्गयुतिः स्याद्धरसंज्ञकः ।

   द्वितीयः प्रथमाभ्यस्त आद्यो द्विघ्नत्रिभज्यया ।। क्षुण्णा प्रथमतुर्याभिहतिः क्रान्तिज्यकाहृता । ।

  तृतीयत्रिज्यकाघातकृत्या युक्ता तयोनिता ।

  द्युज्याकृतिः परस्तौ स्तो त्रिज्याकृतिहतौ तथा ।

   हारभक्तावथाद्यस्य वर्गेणाढयात् परात् पदम् । गोलयोराद्ययुक्तोनं भवेदक्षांशशिञ्जिनी ॥ सौम्यापमे परो व्यस्तशुद्धया चेदाद्यवगंतः ।

  परेणोनात् पदाढयोन अाद्योऽक्षज्या द्विधा भवेत्?।