५१४ ॥ सिद्धान्तशिरोमणौ गोलाध्याये तत्रोदाहरणम् अब्ध्यङ्गाश्वैः ७६४ संमिता क्रान्तिजीवा छायाकर्णः ससनेत्राङ्गलश्च २७ ॥ सौम्ये बाहौ यत्र ससाङ्गुले स्यात् तत्राक्षाभां शीघ्रमाचक्ष्व धीमन् ॥ न्यासः । उक्तवत् सिद्धो लघुः ३६ अाद्यः २ परः ३८ तदाद्योनात् परवर्गादित्यादिना सिद्धाक्षभा द्विविधा १७ ॥ ४१ । ८ वा० ॥ ५८ ॥ ५२ । बापूदेवोक्तः प्रश्नः-- विषुवांशान् विदित्वा यो भुजांशान् वक्ति सत्वरम् ।। " कमलाकरतोप्येन मन्येऽहं बुद्धिमद्वरम् । ' ~ अस्य भङ्गः-- । विषुवांशानिहाक्षांशान् प्रकल्प्य पलभा ततः । या स्यात् तस्यास्त्रिमज्याघ्न्यास्त्रिभिद्युज्यकया च यत् । अवासं स्यात् तदिष्टाभां प्रकल्प्यातो नतांशकाः ॥ ये स्युस्ते भुजभागाः स्युविषुवांशकतः स्फुटाः । प्रश्नः-- ये क्रान्तिनाडीवलयैक्यदेशात् क्षेत्रांशकास्तद्विषुवांशकाश्व । तदन्तरं स्यात् परमं कियत् तत् कुत्रेति मित्र प्रवदासु सर्वम् । अस्य भङ्गः-- त्रिज्या क्रमेण त्रिगृहद्युमौव्यं युक्तोनिता पूर्वपराभिधा स्यात् । त्रिज्या परध्नी खलु पूर्वभक्ता ज्यका भवेत् सा परमान्तरस्य । यद्वा त्रिभज्या परमापमार्धज्यया स्वनिध्न्या निहता विभक्ता। तच्चापभागाः परमान्तरं स्यातू तत्खण्डयुक्तोनशराब्धिभागाः । क्षेत्रांशकास्तद्विषुवांशकाश्च यथाक्रमं ते सुधियात्र वेद्याः । एष्वेव क्षेत्रभागेषु वर्त्तमानस्य तीक्ष्णगोः । आयनं वलनं नूनमपमेन समं मवेत् ॥ श्रीम० देवोक्तः प्रश्नः--- ग्रहस्य विषुवांशानां क्रान्त्यंशानां च संयुतिः । नवतिर्यत्र तां क्रान्ति पृथक् कृत्वा वदाशु मे ॥ यस्य भङ्गः--- त्रिज्यात्रिराशिदिनमौविकयोवधार्धाद्य द्वाजिताज्जिनलवज्यकया फल स्यात् । तत्त्रज्ययोः कृतियुतेस्तु पदं फलोन क्रान्तिज्यका भवति तत् सुगमं बुधानाम् । s:-- ग्रहस्य क्रान्तिमागानां भुजांशानां च संयुतिः । नवतिर्यत्र तां क्रान्ति पृथक् कृत्वा वदाशु मे ॥ । अस्य भङ्गः-- त्रिज्याजिनांशशिब्जिन्योर्वर्गयोगपदोद्धृत: । वध: क्रान्तिज्यका सा स्याद् भुजकोटिज्यकासमा ।
पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/556
एतत् पृष्ठम् अपरिष्कृतम् अस्ति