पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/559

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रश्नध्याय: “ኣ8\9 वा० वा०-प्रश्नान्तरमाह-अक्षाभां तरणि दिशो युगगतमिति । अत्र यन्त्रवेधविधिना ध्रुवोन्नतिरक्षांशाः । तुर्यादियन्त्रेण मध्याह्न रवेर्नतांशा वेध्यास्ते अक्षांशैः संस्कृताः क्रान्त्यंशाः भवन्ति । क्रान्तिज्यातो विलोमविधिना दोज्य वेद्या तस्या धनुरंशा वर्षप्रथमचरणेऽकीं भवति । द्वितीये भाद्धच्युतस्तृतीये सभाद्धश्चतुर्धे भगणोत्पतितोऽकीं भवति । वर्षचरणज्ञानं सूर्याक्रान्तनक्षत्रादिति स्पष्टम् । दिग्ज्ञानं ध्रुवात् । एवं प्रत्यहं मध्याह्न स्पष्टसूर्यज्ञानम् । अद्यतनस्वस्तनस्पष्टयोरन्तरे स्पष्टागतिः । एवं वर्षपर्यन्तं स्पष्टगतयो विलोक्याः । यस्मिन् दिने गतेरत्यन्ताल्पत्वं तद्दिने यावान् स्पष्टसूर्यस्तावदुच्चम् । परमाधिकपरमाल्पगत्योयोगार्द्ध मध्यमा गतिः । स्पष्टसूर्याद्विलोमविधिना प्रत्यहं मध्यमसूर्यो एकमुदृत्तशङ्क तथा वाग्रकाखण्डमाद्य तयोस्तद्धूर्ति साधयेत् । तद्धृतिज्ञोऽवर्गेत्योन्नतं साधयेत् क्रान्तिजीवामथैवं मुहुः स्तः स्फुटे ॥ मूलं च तद्धृतिदलं परिकल्प्य विद्वानग्राग्रखण्डसमवृत्तनरोध्र्वखण्डे । ज्ञात्वैकशोऽपम इतोऽथ तमुन्नतं च विज्ञाय तद्धृतिरिदं च मुहुः स्फुटौ तौ । समुन्तलवज्यकाहतचरांशकोटिज्यकां विभज्य चरजीवयोन्नतजकोटिमौव्यसयोः । यदन्तरमिहामुना त्रिभगुणाद्धृताद्यत् पद दिवाकरहतं भवेदिह पलप्रभेट पुरे । यदि सूत्रं चरञ्ज्यायाः स्थाने तत्साधितान्तरात् ॥ त्रिभज्याविहृतान्मूल रविध्न स्यात् पलप्रभा। बापूदेवोक्तः प्रश्नः-- यस्तीक्ष्णरश्मेनतकालमान दिश च संवीक्ष्य पलांशदशों । क्रान्ति विजानाति स एव गोलज्ञानाभिमानोन्नतमस्तकोऽस्ति । .. अस्य मङ्गः । दो: कोटिजीवे नतकालजाते दिग्ज्याक्षजीवानिहते क्रमेण । दिगंशकोटिज्यकया त्रिमौव्य विभाजिते चाद्यपराहुये स्तः । योगो वियोगश्च तयोर्दिगंशोत्तरानुदक्त्वेऽथ नतं यदि स्यात् । पञ्चेन्दुनाडश्यभ्यधिकं तदातो व्यस्तं च तस्माद्रविभिर्विनिघ्नात् ॥ लम्बज्ययासं पलभा प्रकल्प्य साध्याक्षजीवापमशिञ्जिनी सा । योगे तथाद्याच्च परस्य शुद्धौ दिगंशदिक्केतरथान्यदिक्का। श्रीम० देवसतीथ्यमहादेवभट्टोत्तो भङ्गः--- दिग्भागकोटिगुणलम्बलवोत्क्रमज्याहत्या हतो नतगुणस्त्रिगुणस्य कृत्या । भक्तोऽथ दिग्लवनतासुलवान्तरज्या लब्ध्योवियोगयुतितस्तु परः क्रमेण । न्यूनाधिकत्ववशतोऽत्र दिगंशकानां चाप परस्य रहितं नवतेज्ययास्य । दिग्भागाकोटिगुणलम्बगुणाहतेर्यल्लब्धं द्युमौव्युंदगतस्त्वपमः प्रसिध्द्येत् ॥ सौम्या न दिग्लवकला यदि तन्नतासुयोगज्यकासरहितान्य इतोऽल्पक चेत्। दिग्भागकोटिगुणतो नतजीवयासमक्षज्यकाघ्नमपमोऽनुदगन्यथोदक् ॥