पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/56

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११
मध्यमाधिकारे कालमानाध्यायः

वा० वा०-वेदाङ्गत्वाद्धिजैरवश्यमध्येतव्यमिति विवक्षुस्तावदस्य वेदाजुत्वे हेतुमाह वेदास्तावदिति ॥ ननु कालस्योद्देश्यत्वेन विधिसम्बन्धाभावात् कर्थ कर्मशेषत्वम् । काले हि कर्म चोद्यते न कमणि काल इति । सत्यम् । न कर्मणि कालचोदना' तथापि-पौर्णमास्यां पौर्णमास्यां यजेत, इत्यादौ* तूपादेयमपि कर्मस्वरूपं न विधेयं पूर्वप्राप्तत्वात् । तद्रूपमेव प्रत्यभिज्ञायत इत्यनुवाद्यम् । तस्य चोद्देश्येनापि कालेन सम्बन्धमात्रमप्राप्तमिति तन्मात्रं विधीयत इति । एतदेव कालस्य विधेयत्वं नाम, विधेयत्वाच्चाङ्गत्वसिद्धिः तस्माद्वेदप्रतिपाद्यस्य कर्मणो ज्योतिःशास्त्रप्रतिपाद्यः कालोऽङ्गम् । प्रतिपाद्ययोः ॐशेषशेषित्वं प्रतिपादकयोरप्युपचर्यत इति वेदस्य ज्योति:शास्त्रमङ्गमिति सम्यगुक्तम् । प्रत्यक्षो वाऽनुमितो वा *वेदो भवतु तत्र नास्माकमाग्रहः । इदं वेदमात्राङ्गम् । स्मृतिपुराणेतिहासप्रतिपादितकर्माप काले विधेयमित्यनुमितवेदस्यापि ज्योति:शास्त्रमङ्गम् । तिथ्यादिकालनिर्णयशास्त्रमपि ज्योतिश्शास्त्राधीनम्।

तथा चाह सूत्रकृत्-

‘वेदा हि यज्ञार्थमभिप्रवृत्ताः कालाश्रयास्ते "क्रतवो निरुक्ताः ।
तस्मादिदं कालविधानशास्त्रं यो ज्योतिषं वेद *सवेद यज्ञम्' । इति ।

अत्र यज्ञशब्दो होमदानजपाद्युपलक्षणार्थ । यतस्तान्यपि कालविशेषे विधी°यन्ते ।। *कालशब्दोऽपि दिगाद्युपलक्षणार्थः । तस्यापि ज्योतिःशास्त्रप्रतिपाद्यत्वात्कर्मानुष्ठानोपयोगित्वाच्च। ९ । ।

तत्र वेदरूपपुरुषस्य कानि कान्यङ्गानीत्याह शब्दशास्त्रमिति । ज्योतीषि ग्रहनक्षत्राण्यधिकृत्य कृतो ग्रन्थो ज्योतिषम् (अधिकृत्य कृते ग्रन्थे ) इति सूत्रात् । ज्यौतिषमेव *तस्माच्चक्षुरित्येवमादिषु आद्यैर्बुधैरित्यनेन प्रमाणो* पन्यासः कृतः ॥ १० ॥ <poem>

अथास्याङ्गमध्येऽभ्यहितत्वे युक्तिमाह । वेदचक्षुरिति॥११।।

वेदाङ्गत्वादवश्यमध्येतव्यम् तद् द्विजैरेव न शूद्रादिनेत्येतत्प्रतिपादयति ।


१. प्रेरणा इत्यर्थं, यतः ‘चोदना लक्षणोऽर्थो धर्म' इति मीमांसासूत्रस्मरणात् । २. तु क ख ग पु० । ३. अङ्गाङ्गीभावत्वमिति तात्पर्यम् ।। ४. वेदा ख पु० ।। ५ क्रतो ख पु० । तथेदानीं ज्योतिषवेदाङ्ग द्वितीयचरणः ‘कालानुपूर्वा विहिताश्च यज्ञाः' एवं प्राप्यते । किन्तु सिद्धान्तशेखरे-‘क्रतुक्रियार्थं श्रुतयः प्रवृत्ताः कालाश्रयास्ते क्रतवो निरुक्ताः । शास्त्रादमुष्मात् किल कालबोधो वेदाङ्गतामुष्य ततः प्रसिद्धाः ।।' इति । एवमेव वृद्धवसिष्ठसिद्धान्तेऽपि केवलचतुर्थचरणे ‘वेदाङ्गमुख्यत्वमितः प्रसिद्धम्' इति पाठान्तरमुपलभ्यते । ६. अयं नास्ति ख पु० । ७. बिधीयते ख पु० । ८. कालब्देपि ख पु० । ९. कस्या क ख पु० ।