पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/560

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'8& सिद्धान्तशिरोमणौ गोलाध्याये ज्ञेयः । ततो 'राश्यादेविकला' इत्यनेन विकलाशेषादहगणज्ञानम् । अहगणाद्वारज्ञानम् । अहर्गणाद्विलोमविधिना कल्पगतज्ञानम् । एवं गोलादियन्त्रेण स्पष्टचन्द्रज्ञानम् । स्पष्टसूर्यचन्द्रयोर्मासतिथिनक्षत्रयोगकरणज्ञानम् । एवं भगणभोगपर्यन्तं स्पष्टचन्द्रवेधेन मन्दोच्चज्ञानं मन्दोच्चगतिज्ञानं च । रात्रौ दृष्टचन्द्रछायातश्चन्द्रदिनगतं भूपृष्ठस्थक्षितिजादूध्र्व भवति। यस्मिन् काले चन्द्रच्छायालक्षिता तस्मिन्नेव काले स्पष्टचन्द्रो ज्ञातव्यः । अस्माच्चन्द्रादायनट्टक्कर्मदानेनोदयलग्नं साध्यम् । उदयलग्नेष्टलग्नयोरन्तर घटयाद्याद्य भूगर्भस्थक्षितिजादूध्र्व भवति । यद्यनेन दिनगतान्तरेण भूव्यासाद्धयोजनानि तदा षष्टिघटीभिः किमिति स्पष्टकक्षा भवति । परमाधिकपरमाल्पकक्षयोयोंगाद्ध मध्यमा कक्षा कल्प्या । एवं सर्वे ग्रहाः स्पष्टास्तत्कक्षाश्च ज्ञातव्याः । तन्मध्यगतयोऽपि । एवं सर्वेषां शराः वेद्याः । दक्षिणशराभावे यो ग्रहः स भगणशुद्धः पात इति कालान्तरेण पातज्ञानं सर्वेषां परमशरज्ञानं च । भौमादीनां कल्पगतान्मध्यगत्या मध्यमग्रहज्ञानम् । यन्त्रेण भौमादीनां स्पष्टज्ञानम् । मध्यमस्पष्टयोरन्तरं फलसंस्कारस्तत्पृथक्करणम् । भौमादेः स्पष्टकक्षा प्रत्यहं ज्ञेयाः । स्पष्टकक्षायाः व्यासार्द्धं स्पष्टयोजनकर्णः । यदि मध्यमयोजनकर्णन त्रिज्यातुल्यो लिप्ताकर्णस्तदा स्पष्टयोजनकर्णन किमिति चलकणों भवति। यतश्चलकर्णी हि ग्राहकक्षाया व्यासाद्धमित्याचार्यमते स्पष्टम् । एवं प्रत्यहं चलकर्णेषु ज्ञातेषु परमाधिकचलकर्णत्रिज्ययोरन्तरं शीघ्रान्त्यफलज्या तस्या धनुः शीघ्रफलांशाः । एवं प्रत्यहं शीघ्रफलज्ञानेन तच्छीघ्रोच्चज्ञानं शीघ्रोच्चगतिज्ञानं च। ततो विलोमशीघ्रफलसंस्कारेण स्पष्टान्मन्दस्पष्टज्ञानम् । ततः प्राग्वन्मन्दोच्चज्ञानम्। अहगणाद् भाज्याद् कुट्टकेन मन्दोच्चपातभगणज्ञानम् । एवमादिपठितसिद्धान्तेन युक्त्या सर्वं ज्ञातुं शक्यत इत्यस्योत्तरम् ॥ ४९ ।। बापूदेवोक्तः प्रश्नः-- उन्नतं समयमक्षमां तथा तीक्ष्णगोदिशमवेक्ष्य योऽपमम् । द्राग्ब्रवीति स हि गोलविद्वरो दुष्टगाणितिकगर्वनाशनः । अस्य मङ्ग:-- पलकर्णदिगंशकोटिजीवोन्नतकालासुगुणाहतिर्युतोना । २ यमसोमजदिग्ज्ययोन्नतासूत्क्रमजीवाऽक्षभयोर्वधेन निघ्न्या । विहिता हरसंज्ञिका किल स्यातू त्रिभजोवागुणितोऽक्षकर्णवर्ग: । रहितो नयनेन्दुवर्गनिघ्न्योन्नतकालोत्क्रमजीवया च भाज्यः । त्रिभमौविकया हतो हि भाज्यो हरभक्तो भवति प्रमा नरोऽतः । अपमावगमस्ततः सुबोधः सुधियो गाणितिकस्य गोलवेत्तुः । ।