। प्रश्नाध्यायः ܪܢܐ गणकैः सोपराधो मम क्षन्तव्य इत्याह—ये वृद्धा इति । पूरोक्तिदूषणावश्यकत्वे हेतुमाह-कर्तव्ये स्फुटवासनाप्रकथने पूर्वोक्तिविश्वासिनामिति ॥ ५८-६० ।। na vN in a wM आसीत् सह्मकुलाचलाश्रितपुरे त्रै विद्यविद्वञ्जने नानासञ्जनधाम्नि विञ्जडविडे शाण्डिल्यगोत्रो द्विजः । (`ዮs विचारसारचतुरो निःशेषविद्यानिधिः साधूनामवधिर्महेश्वरकृती दैवज्ञचूडामणिः ॥ ६१ ॥ तञ्जस्तच्चरणारविन्दयुगलप्राप्तप्रसादः सुधीमुग्धोद्बोधकरं विदग्धगणकप्रीतिप्रर्द प्रस्फुटम्। एतद्वयत्तसदुक्तियुक्तिबहुलं हेलावगम्यं विदां सिद्धान्तग्रथनं कुबुद्धिमथनं चक्र कविर्भास्करः ।। ६२ ।। केचित् पिपठिषन्त्येन प्रश्नाध्यायं हि केवलम्। तदर्थे लिखिता अत्र प्रश्नाः प्राग्गदिता अपि ।। ६३ ।। प्रश्नानमून् प्रपठतो गणकस्य गोलकन्दोल्लसत्सरलयुक्तिशतप्रवालैः । प्रश्नोत्तरार्थपरििचन्तनवारििसक्तमूलामला मतिलता समुपैति वृद्धिम्।।६४। वा० भा० - स्पष्टार्थम् ॥६१-६४।। इतिश्रीमहेश्वरोपाध्यायसुतभास्कराचार्यविरचिते सिद्धान्तशिरोमणिवासनाभाष्ये मिताक्षरे गोलाध्याय: समास: । अत्र गोलाध्याये ग्रन्थसंख्या २१०० ।। वा० वा०-अथ ग्रन्थसमाप्त्यलङ्कारमाह-आसीदिति । तज्ज इति । सह्यकुलाचलो महाराष्ट्रदेशेऽस्ति । विदर्भापरपर्यायवराडदेशादपि निकट एव वरीवति गोदावर्या अपि नातिदूरे प्रदेशे । जडविडे ग्रामे। अधुनापि विडमिति तन्नगरनामास्ति। यजुर्वेदशाखाध्यायी इति प्रसिद्धः शाण्डिल्यगोत्रो ब्राह्मणो महेश्वराचार्यो महामहीपाध्यायः श्रौतस्मात्तँविचारसारचतुर अासीदिति स्पष्टम् । सिद्धान्तग्रथनं भास्करश्चक्रे । कुबुद्धिमथनमिति विशेषणम् । अत्र चक्र इति प्रयोगः शिष्टसम्प्रदायागत इत्यदोषः । यन्त्राध्यायप्रशनाध्याययोरुपपत्तिप्रतिपादकत्वेन गोलाध्यायान्तर्गतत्वमपि युक्तम् । प्रश्नपाठकस्य बुद्धिविवृद्धिमुपेतीत्याह-प्रश्नानमूनिति । अत्रान्ते वृद्धिशब्दो मङ्गलार्थः । गणितुं हि द्विविधम्-ग्रहगणितं गोलगणितं चेति । वासनोपयोगित्वेन व्यक्तं,ाव्यक्तगणित गोलांन्तर्गत इत्याहुः ॥ ६१-६४ ॥ श्रीमत्कौङ्कणवासिकेशवसुतप्राप्तावबोधाद्बुधाद्भट्टाचार्यसुताद्दिवाकर इति ख्याताज्जनि प्राप्तवान् । य: कृष्णस्तनयेन तस्य रचिते सद्वासनावातिके, रोमणेरयमगात् प्रश्नाधिकारः स्फुटः ॥
पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/567
एतत् पृष्ठम् अपरिष्कृतम् अस्ति