जयोत्पत्तिः ५२९ ज्यार्धम् । तत्कोटिज्या तु षोडशम् १६ । शरवेदांशज्या द्वादशम् १२ । अथाष्टमात् तदधाँशप्रकारेण चतुर्थम् ४। तत्कोटिज्या विशम् २० । एवं चतुर्थात् द्वितीय २ द्वाविश च २२ । द्वितीय.दाद्य १ त्रयोविशं च २३ । विंशतितमाद्दशमं १० चतुर्दशं च १४ ॥ दशमात् पञ्चमं ५ एकोनविशं च १९ । द्वावशादेकादशं ११ त्रयोदशं च १३ । चतुर्दशात् ससमं ७ ससदशं च १७ । अष्थ द्वादशात् षष्ठ ६ मष्टादशं च १८ । षष्ठात् तृतीय-३ मेकविशं च २१ ॥ अष्टादशान्निवमं ९ पञ्चदशं च १५ । त्रिज्या चतुविशमिति । एवं किल पूर्वेरन्यज्यासाधनमुक्तम् ॥ इदानी विनाप्युत्क्रमज्ययाभिनवप्रकारेणाह—त्रिज्याभुजज्याहतीत्यादि । त्रिज्याभुजज्याघातेन त्रिज्याकृतिरेकत्रोनान्यत्र युता । द्वे चाधिते । तयोर्मूले । आद्य भुजोनखाङ्कशानां दलस्य ज्या । द्वितीयं भुजाढ़यखाङ्कांशानां दलस्य । एवमतोऽप्यन्याः । तद्यथा । अष्टमात् षोडशं १६ ज्यार्धम् । षोडशाच्चतुर्थं ४ विशं च २० । चतुर्थाद्दशमं १० चतुर्दशं च १४ ॥ एवं सर्वाण्यपि । प्रकारान्तरमाह यहोज्यंयोरन्तरमित्यादि । इष्टदोज्र्ययोर्यदन्तरं कोटिज्ययोश्च यत् तयोर्वर्गैक्यमूलस्य दलं भुजयोरन्तरार्धस्य ज्या भवति । एवमन्ययोरज्यान्याः ॥ यथैका किल चतुर्थी ४। अन्याष्टमी ८ दोज्य । ताभ्यां द्वितीया २ सिध्यति । द्वितीयाचतुर्थीभ्यां प्रथमे १ त्यादि । तथा दोकोटिज्ययोरन्तरवर्गदलस्य मूल दोकोटिभागान्तरार्धस्य ज्या स्यात् । यथाटमी ८ दोज्या । षोडशी १६ कोटिज्या । ताभ्यां चतुर्थी ४ स्यादित्यादि। अथ मूलग्रहणक्रियया विनापि दोःकोटिभागान्तरज्यानयनमाह-दोज्र्याकृतिरिDDD S DDDDDDDD DDDS SS S DDDD DDDDDD DDDD DDSDuDDDDD YD स्यात्। कानिचिदेवमत्र ज्यार्धानि साध्यानि । तद्यथा । यत्र किल त्रिशज्ज्यार्धानि तत्र त्रिज्यार्धं दशमम् १० । तत्कोटिज्या विशतितमम् २० । शरवेदांशज्या पञ्चदशम् १५ ॥ षट्त्रशदंशज्या द्वादशम् १२ । तत्कोटिज्याष्टादशं १८ ज्यार्धम् । अष्टादशभागानां ज्या षष्ठम् ६ । तत्कोटिज्या चतुविंश २४ मिति । क्रमोत्क्रमज्याकृतियोगमूलादित्यादिना पूर्वोक्तप्रकारेण दशमात् पञ्चमम् ५ । तत् कोटिज्या पञ्चविशम् २५ । एवं द्वादशात् षष्ठं ६ चतुविशं २४ च । षष्ठात् तृतीयं ३ सप्तविशं २७ च । अष्टादशान्नवम ९ मेकविश २१ च एतान्येवानेन प्रकारेण सिध्यन्ति नान्यानि । अत उत्त कानिचिदेवमत्रेति । यद्दोज्र्ययोरन्तरमित्यादिप्रकारेण । अतोऽत्र पञ्चम ५ मेका दोज्य नवम ९ मन्या। आभ्यां यद्दोज्र्ययोरन्तरमित्यादिना प्रकारेण भुजयोरन्तरार्धस्य ज्योत्पद्यते । तच्च द्वितीयं २ ज्याधम्। तत्कोटिज्याष्टविशम् २८ । आभ्यां क्रमोत्क्रमज्याकृतियोगमूलाद्दलमित्यादिप्रकारेणार्थ १ चतुर्दशं १४ च । एवमन्याश्चतुदश सिध्यन्ति । अथ ज्याभावना । सा च द्वधा। एका समासभावना । अन्यान्तरभावना । तदथंमाह । स्वगोङ्गेषुषडंशेनेत्यादि । यत्र किल वसुत्रिवेदाग्नि ३४३८ तुल्या त्रिज्या नवतिश्च ज्यार्धानि तत्र तावदुच्यते । तत्र मूलभूतज्यानां मध्ये काचनेष्टा भुजज्या तत्कोटिज्या च पृथक् स्थाप्या । भुजज्या स्वनवषडिषुरसः ६५६९ विभागेन रहिता कार्या । कोटिज्या तु दशगुणा । सि०-६७
पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/571
एतत् पृष्ठम् अपरिष्कृतम् अस्ति