पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/572

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३० सिद्धान्तशिरोमणौ गोलाध्याये त्रिसप्तपञ्चभिः ५७३ भज्या । तयोरैक्यं तदग्रज्या । अन्तरं पूर्वज्या स्यात् । यथा त्रिज्यार्धं त्रिशत्संख्याको ज्यार्धम् ३० । ततः समासभावनयैकत्रिशत्संख्यम् ३१ । तस्माद् द्वात्रिशत्संख्यमित्यादि। अन्तरभावनया त्वेकोनत्रिश २९ मष्टाविश २८ मित्यादि। पूर्ण दोज्याँ कोटिज्यां च प्रकल्प्य प्रथमं १ खण्डमेवं षष्टिः ६० स्यात् । अथ यदि सैव त्रिज्या चतुविशतिज्र्यार्धानि तदर्थमाह--कोटिजीवाशताभ्यस्तेत्थादि। अत्रापि त्रिज्यार्धमटर्म ८ ज्याध सा भुजज्या । षोडश १६ कोटिज्या सा कोटिज्या शतगुणा , गोदस्रतिथि १५२९ भाजिता । या तु दोज्य सा तु निजेन सप्ताङ्गवेदां—४६७ ज्ञेन हीना कार्या । यदि तयोरैक्यं क्रियते तदा नवमं ९ ज्यार्धं भवति । यद्यन्तरं तदा सप्तमं ७ स्यात्। एवं समासभावनया नवमाद्दशर्म १० दशमादेकादश ११ मित्यादि। तथान्तरभावनया सप्तमात् षष्ठं ६ षष्ठात् पञ्चम ५ मित्यादि । एवं प्रथमं १ सप्तांशोनतत्ववत्रमितं भवति। अथवा पूर्ण० दोज्याँ त्रिज्यां च कोटिज्यां प्रकल्प्य साध्यते तथापि तदेव । यत: समासभावनया द्वितीयादीन्यखिलानि भवन्ति। अथवा त्रिज्यां दोज्याँ प्रकल्प्य पूर्ण कोटिज्यां च - प्रकल्प्य साध्यते। तदा त्रयोविंश २३ मुत्पद्यते तस्मादन्तरभावनया द्वाविंशम्, २२ ॥ ततोऽप्येकविशम् २१ । एवमखिलान्यपि निष्पद्यन्ते । - अथ भावनामाह-चापयोरिटयोरित्यादि। इष्टयोश्चापयोर्य ते कर्मभूमी स्थाप्ये। तयोरधस्तात् कोटिज्ये च । ततः प्रथमकोटिज्या द्वितीयदोज्र्यया गुण्या । ततो द्वितीयकोष्टिज्या प्रथमदोज्र्यया गुण्या द्व अपि त्रिज्यया भाज्ये । फलयोः समासश्वापेक्यभुजस्य ज्या भवति। अन्तरं चापान्तरस्य ज्या भवति । एवं सिद्धज्यातोऽन्यज्यासाधने भावना । तद्यथा । तुल्यभावनया प्रथमज्यार्धस्य प्रथमज्यार्धेन सह समासभावनया द्वितीयम् २ द्वितीयस्य द्वितीयेनैव चतुर्थ ४ मित्यादि । अथातुल्यभावनया। द्वितीयतृतीययोः समासभावनया पञ्चमम् ५ । अन्तरभावनया प्रथम १ स्यादित्यादि। अथेटव्यासार्धे ज्याज्ञानार्थमाह-आद्यज्याचापभागानामित्यादि । यावह्निरंशैरेंका जया लभ्यते त अद्यज्याचापांशाः । प्रतिभागज्यका विधिरिति । त्रिसप्तपञ्चभिः ५७३ भंतत्यादिना प्रागुकिप्रकारेणेकभागस्य ज्यामानीय तद्धावनातो भागद्वयस्येवं तेषां भागान ज्या साध्या साभीष्टत्रिज्यया हता वस्वनलाब्धिवहिभिः ३४३८ भक्ता प्रथमज्या स्यात् ।ां तस्यास्तयैव सह भावनया द्वितीयाद्याः सिध्यन्ति । इतिज्योत्पत्तिवासना ॥१-२५॥ । समाप्तोऽयं सिद्धान्तशिरोमणिर्वासनाभाष्यसहित: ॥ । वा० वा०-अथ ज्योत्पति प्रतिजानीते-अत्राचार्याणां पदवीमिति । स्पष्टगतिवासनायां प्रतिपादिताया ज्योत्पतेः पुनः प्रतिपादनं दोषावहमितिनाशङ्कनीयम् । संक्षेपविस्तृतिप्रतिपादनपरं पौनरुक्त्यं प्रयोजनैक्येऽपि न दुष्यतीति प्रागुक्तत्वात् । व्यासदलेनेति । द्वित्र्यादि निघ्नमिति । अथान्यथेति । दोःकोटिजीवेति । त्रिज्याद्धमिति । व्याख्यातचरमेतत् ।