ज्योत्पपत्तिः “ኣቑ'ኣ बृहच्चापज्यात्रिज्यागुणा । बृहच्चापज्यायां शोध्येति प्राप्ते गुणयोरेव लाघवादन्तरं कृत्वा लघुचापकोटिज्यागुणबृहच्चापज्यात्रिज्याभक्ता फलं बृहच्चापकोटिज्यागुणत्रिज्याभतलघुचापज्यायाँ योज्यमित्युत्पद्यते । अत उपपन्नम्-लब्ध्योर्योगश्चापैक्येति । एवं लघुचापचापैक्यज्यान्तरसाधनेऽप्यूह्यम् । एवं लब्धयोरन्तरं चापान्तरज्येति यथेष्टकनिष्ठज्येष्ठाभ्यां ज्ञाताभ्यामन्यानि पदान्युत्पद्यन्ते। तथात्रापि चापद्वयजीवाश्ज्ञाने सर्वा अपि जीवा ज्ञायन्त इति ज्यानां भावनेत्युक्तम् । - अत्रान्यथान्यैमिथ: कोटिज्यकाहते दोज्यें। इत्यस्योपपत्तिः- सोदाहरणोच्यते । यत्र त्रिभमध्ये चतुविशतिजीवास्तत्र प्रथमज्या तत्त्वाश्वितुल्या । तत्र तत्त्वाश्विकलाप्रमाणेन पञ्चमनवमजीवाज्ञाने तत्कोष्टिज्याज्ञाने च चापैक्यज्यासाधनेन चतुर्दशीजीवा ज्ञायते चापान्तरज्यासाधनेन चतुर्थी ज्ञायते । पञ्चमजीवायाश्चतुर्दशसंख्यजीवायाश्चान्तरं नवमितज्याखण्डात्मकं नवतुल्यानुपातैः साध्यते । यदि त्रिज्यातुल्यकोटिज्या प्रथमं तत्त्वाश्वितुल्यं ज्यान्तरं लभ्यते तदैकोनविशतिजीवातुल्यकोटिज्यया किमिति जातं पञ्चमजीवायाः षड्जीवायाश्चान्तरम् । पुनरनुपातः त्रिज्यातुल्यकोटिज्यया द्वितीयं ज्याखण्डकं तदेकोनविंशतिजीवातुल्यकोटिज्यया किमिति षष्ठजीवायास्तदग्रिमायाश्चान्तरं जातम् । एवं सप्तानुपातैः सप्तखण्डानि साध्यानि । ततस्तेषां योगः पञ्चमज्याश्चतुर्दशमितज्यायाश्चान्तरं भवति । तस्मादेकोनविंशतिज्या तुल्या लघुचापकोटिज्या । तत्वाश्विप्रमुखाणि यान्युत्क्रमेण नवसंख्यानि ज्यान्तराणि तैनवधा गुणनीया सर्वत्रापि त्रज्यया भाज्येति 'प्राप्ते एकोहरश्चेद् गुणकौ विभिन्नौ तदा गुर्णक्यमेवैको गुण' इति युक्तया लघुचापकोटिज्यायास्तत्वदस्राद्यात्मकनवखण्ड्योगो नवमी जीवा तुल्य एव गुणः कृतः हरस्तु त्रिज्यैव । अत्र नवमी जीवैव बृहच्चापजीवा सञ्जातेति ‘चापयोरिष्टयोर्दोज्ये मिथः कोटिज्यकाहत इत्युक्तम्’ । एवं बृहच्चापकोटिज्यातोऽपि ज्यान्तरं साध्यम् । शेषं पूर्ववत् । इयं ज्योत्पत्तिवासनाप्रसङ्गन सूर्यसिद्धान्तवासनाभाष्येऽप्यस्माभिरुक्ता । समासभावनेत्यादिवृत्तत्रयं स्पष्टम् ॥ १-२५ ॥ श्रीमत्कौङ्कणवासिकेशवसुतप्राप्तावबोधाद्बुधाद् भट्टाचार्यसुताद्दिवाकर इति ख्याताज्जनि प्राप्तवान् । य: कृष्णास्तनयेन तस्य रचिते सद्वासनावात्तिके; सत्सिद्धान्तशिरोमणेः सुविषमा ज्योत्पत्तिरेषागमत् ॥ इति श्रीसकलगणकचक्रचूड़ामणिकृष्णदैवज्ञसुतनृसिंहगणकविरचिते सिद्धान्तशिरोमणिवासनावात्तिके ज्योत्पत्तिः ।
पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/577
एतत् पृष्ठम् अपरिष्कृतम् अस्ति