पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/578

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३६ सिद्धान्तशिरोमणी गोलाध्याये बुद्धेविवृध्द्ये गणितप्रबन्धविचारसारामृतमावहन्तीसद्वासनावासितमानसानां मदुक्तिरैषा मुदमादधातु ॥१॥ गुणवेदशरेन्दु १५४३ सम्मिते शककाले नगरेशितुः वसता वरणासिमध्यगे नरसिहेन विनिमितं त्विदम् ॥२॥ निजे तत्वमिते वर्ष सौरभाष्य मया कृतम् । पञ्चत्रिशान्मिंते वर्षे वासनावातिक कृतम् ॥३॥ नवीनयुक्तिप्रतिपादनेन पूर्वोक्ततन्त्रादपि सद्विशेषम्। - नरप्रणीतान्नृहरिप्रणीतं स्वीकार्यमार्यैः स्वधिया विचार्यम् ॥४॥ गोदावरीसौम्यतटोपकण्ठग्रामे च गोलेऽभिधया प्रसिद्धे । विप्रो महाराष्ट्रसुगीतकीतिबभूव रामो गणकार्यवन्द्यः ॥५॥ अग्रणीस्तैतरीयाणां भट्टाचार्यस्तु तत्सुतः ॥ अासीन्मीमांसकश्रेष्ठः कुमारिल इवापरः ॥६॥ गोत्रे भरद्वाजमुनेः पवित्रे दिवाकरस्तत्तनयो बभूव । वेदान्तशास्त्राभ्यसनेन काश्यां यः पुण्यराश्यां तनुमुत्ससर्ज ॥७॥ साम्वत्सरायस्य दिवाकरस्य श्रीकृष्णदैवज्ञ इति प्रसिद्ध । बभूव पुत्रः सुतरां पवित्रः सत्तीर्थकर्त्ताखिलशास्त्रवेत्ता ॥८॥ तज्जस्तु तस्यैव कृपालवेन तातानुजावाप्तसमस्तविद्यः ॥ सद्वासनावातिकनामधेयं ग्रन्थं नृसिहो रचयाम्बभूव ॥९॥ नो या वराहेण च जिष्णुजेन पृथुदकेनार्यभटेन जुष्टाः । असंस्तुता भास्करदर्शनेन ता वासनावात्तिक एव लभ्याः ॥१०॥ मदुक्ति सद्युक्तिजलाञ्जलीभिः सन्देहमन्देहवधं विधाय । बुधाः सुधां भास्करदर्शनोत्थामास्वादयन्तोऽभिमतानि कुर्युः ॥११॥ । इति गणकचक्रचूड़ामणिनृसिंहकृते सिद्धान्तशिरोमणि वासनावात्तिके ग्रन्थसमाप्त्यलङ्कारः ॥ अत्र संख्या द्वाविंशतिशतानि २३०० एवमत्रादितो ग्रन्थसंख्या वियदम्बरपञ्चपञ्चतुल्या ५५०० ॥ ता ॥ श्रीमन्नृसिहगुरुभ्यो नमः ॥