पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/58

एतत् पृष्ठम् अपरिष्कृतम् अस्ति



१३
मध्यमाधिकारे कालमानाध्यायः

मध्यमाधिकारे कालमानाध्यायः रहस्यं गोप्यं दुष्टेभ्यः । तथा च श्रुतिः ‘विद्या ह वै ब्राह्मणमाजगाम गोपाय मा शेवधिष्ठेऽहमस्मि । असूयकायानृजवेऽयताय न मा ब्रूया वीर्यवती तथाऽस्याम् ॥

कालप्रतिपादकत्वात् परमतत्वम्' । पुरुषार्थचतुष्टयसाधनस्य वेदस्याङ्गमित्ये. तदध्ययनपूर्वकं ज्ञानं धर्मार्थकाममोक्षदमिति सम्यगुक्तम् । सम्यगित्यनेन प्रत्यक्षागमः सहितमित्युक्तम् । एतत्प्रतिपाद्य' ग्रहचारादेः प्रत्यक्षप्रमाणसिद्धत्वात् वेदवत् स्वत प्रमाणं स्मृतिवद्वेदमूलकत्वेन वा प्रमाणम् । शाक्यादिप्रणीतशास्त्रवदप्रमाणमिति शङ्कापि नास्ति ।

तथा चाहुः'-

अप्रत्यक्षमिहान्यशास्त्रगदितं कोऽप्यत्र न प्रत्ययो, वादः केवलमत्र तत्र च मिथः सर्वा विरुद्धोक्तयः । ज्योतिः शास्त्रमदो वदत्यवितथं दृष्टप्रमाणं यतो, वक्तारो न विरुद्धबुद्धय इदं स्वाध्यायचक्षुः किल ॥ इति ॥ १२ ।।

इदानीं ज्योतिश्शास्त्रमूलभूतस्य सग्रहस्य भचक्रस्य चलन श्लोकद्वयेनाह। सृष्ट्रा भचक्र' कमलोद्भवेन ग्रहैः सहैतद्भगणादिसंस्थैः । शश्वद्धमे विश्वसृजा नियुक्त तदन्ततारे च तथा ध्रुवत्वे४ ॥ १३।। ततोऽपराशाभिमुखं भपञ्जरे सखेचरे शीघ्रतरे भ्रमत्यपि । तदल्पगत्येन्द्रदिशं नभश्वराश्चरन्ति नीचोच्चतरात्मवत्र्मसु' ॥ १४ ॥ १. परमं क पु० । २. प्रतिपादक क पु० । ३. चाङ्गः क, वाहुः ख पु० ।। ४. वृद्धवसिष्ठसिद्धान्त-सृष्ट्रा ज्योतिश्चक्रं खत्रयवेदाङ्गखाद्रिशशिवर्षेः । शश्वद्भ्रमणे क्षिप्त्वा मेषादिग्रहा: कमलभुवा ( १ अ० ११ श्लो० ) तथा च श्रीपतिः ‘ध्रुवद्वयी मध्यगतारकाश्रितं चलद्भचक्रतं जलयन्त्रवत् सदा । विधिः ससजाश्विनपौष्णमध्यगैग्रहै: सहोपर्युपरि व्यवस्थित:' ( सि० शे० १ अ० ९ श्लो० ) । अत्रायमटः ‘‘उदयास्तमयनिमित्तं प्रवहेण वायुना क्षिसः । लङ्कासमपश्चिमगो भपञ्जरः सग्रहो भ्रमति ।' ९. अत्र लल्ल: । 'मध्यमकक्षावृत्ते मध्यमया गच्छति ग्रही गत्या । उपरिष्टात् तल्लध्व्या तदधिकगत्या त्वधः स्थः स्यात् । वक्री यात्यपराशां निसर्गतो गच्छति ग्रहः प्राचीम् । क्रान्त्या याम्योदीच्योग्रहगतिरेवं भवेत्। षोढा।' शि० धी० गो० भुव० ३८-३९ श्लो० ।।