RYK सिद्धान्तशिरोमणौ ग्रहगणिते वा० भा० यदेतद्धचक्र ग्रहै: सह भ्रमद्दृश्यते तद्विश्वसूजा जगदुत्पादकेन कमलोद्धवेन ब्रह्मणा सृष्टयादौ सृष्ट्वा ततः शश्वद्भ्रमेऽनवरतभ्रमणे नियुक्तम् । एतदुक्ततं भवति । भान्यश्विन्यादीन्यन्यानि विशिष्टानि ज्योतीषि तेषा समूहश्चक्र ग्रहाश्च सूर्यादयस्तै: सह सृष्टम् । तानि भानि प्राक्संस्थया समन्तान्निवेशितानि । ग्रहास्तु भगणादावश्विनोमुखे निवेशितास्त उपर्युपरिसंस्थया । तत्रादौ तावदधश्चन्द्रः । तदुपरि बुधः । ततः शुक्रः । ततो रविः । तस्माद्भौमः । ततो गुरुः । ततः शनिः । सर्वेषामुपरि दूरे भचक्रम् । एषां कक्षाप्रमाणानि कक्षाध्याये प्रतिपादयिष्यन्ते। अहो यद्यध्वध्र्वस्था ग्रहास्तदुपरि दूरतो भगणस्तत् कथ भगणादिसंस्थैर्ग्रहैरित्युच्यते । सत्यम् । अत्र भूमध्ये सूत्रस्थैकमग्र बद्ध्वा द्वितीयमग्र भचकेऽश्विनीमुखे किल निबद्धम्। तस्मिन् सूत्र प्रोता मणय इव चन्द्रादयो ग्रहाः सृष्टयादौ ब्रह्मणा निवेशिताः । भमण्डलं द्वादशधा विभज्यैवं भूमध्यात् सूत्राणि प्रतिभाग नीत्वा किल बद्धानि त: सूत्रै: सह ग्रहकक्षायां ये संपातास्ते तासु कक्षासु राश्यन्ताः । तद्वत्प्रकारा राशय इति संक्षिसमिहोक्तम् । कक्षाध्याये गोले च किञ्चिद्विस्तार्य वक्ष्यामः । एवंविधं भचक्रं सृष्ट्वा ब्रह्मणा गगने निवेशितम् । यत्र निवेशितं तत्र प्रवहो नाम वायुः । स च नित्यं प्रत्यग्गतिः । तेन समाहतं भचक्रं सखेचरं पश्चिमाभिमुखभ्रमे प्रवृत्तम् । यत् तस्य प्रत्यग्भ्रमणं तच्छीघ्रतरम् । यत एकेनाह्वा भमण्डलस्य परिवर्त्तः । एवं तस्मिन् भपञ्जरे सखेचरे शीघ्रतरे भ्रमत्यपि खेचरा इन्द्वदिशं चरन्ति पूर्वाभिमुखं व्रजन्ति । नीचोच्चतरात्मवत्र्मत्सु । अनन्तरकथितेषु स्वस्वमार्गेषु तेषा पारिभ्रमणम् । तत् तदल्पगत्या । प्रत्यग्गतेर्बहुत्वात् प्रागल्पगत्या व्रजन्तो नोपलक्ष्यन्त इति भाव: । तथा तस्य भपक्षरस्य यौ दक्षिणोत्तरावन्तौ तत्र ये तारे ते ध्रुवत्वे नियुक्ते । १३-१४ । वा० वा०-इदानों कालव्यक्तिजनकत्वेन ज्योति: शास्त्रमूलभूतत्वात् सग्रहस्य भचक्रस्य [ चलनं श्लोकद्वयेनाह' सृष्ट्रवा इति ]। विश्वसृजा जगदुत्पादकेन' कमलोद्धवेन' 'ब्रह्मणा यदेतद् भचक्र सग्रह भ्रमद्दृश्यते तत् सृष्ट्रवा शश्वद्भ्रमे नियोजितमस्ति। सृष्ट्वेत्यनेन नियोजनात् पूर्वकालता' सृष्टेबॉधिता । कल्पादितः प्राक् सृष्टिः कल्पादौ प्रवहवायौ नियोजनमित्युक्तं तथा च श्रीपति: । 'स्वव्यापारातू प्राग्गतिः खेचराणामूध्वधस्ताद्याम्यसौम्यापराणि ॥ गोलाभिज्ञैः पश्च यातानि यानि तेषामुक्तान्यन्यहेतूनि तानि । प्रत्यग्गतिः प्रवाहवायुवशेन तषां नीचोच्चवृतजनितोध्र्वमधश्च सा स्यात् । याम्योतरा त्वपमवृत्तविमण्डलाभ्यां षोढ़ा गतिनिगदितैवमिह ग्रहाणाम् ।' ( सि० शे० १५ अ० ११-१२ sәїo ) अत्रापि वृद्धवसिष्ठः ‘पश्चिमदिग्गतवायुप्रवहनिबद्धे भपञ्जरे शीघ्रम् । भ्रमति सखेचरे सत्यपि खेटाः गतितः प्रयान्ति पूर्वदिशम्' ( १ अ० १२ श्लो० ) १. कोष्ठान्तर्गतोंऽश: ख पु० नास्ति। २. यादुत्पादकेम ख पु० । ३. कमत्वोतिन्हवन, ख पु० । ४. देतत्, क, ख पु० । ५. कालेता, ख पु० ।
पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/59
एतत् पृष्ठम् अपरिष्कृतम् अस्ति