पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/61

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ सिद्धान्तशिरोमणी ग्रहगणिते प्रोता मणय इव चन्द्रादयो ग्रहा अश्विनीस्था: पूर्वापरान्तराभावादुच्यन्ते। एवं भमण्डलं विभज्य चन्द्रादिकक्षासु प्रोत्तदिशा भूगर्भातू सूत्रसंपातै राश्यंशकलाविकलाकल्पनया ग्रहसंस्थां भमण्डले वर्णयन्तीति न किञ्चिद्विरुद्धम् ॥ १३-१४ ॥ इदानीमनाद्यनन्तस्य कालस्य प्रवृत्तिमाह । लङ्कानगर्यामुदयाच्च भानोस्तस्यैव वारे प्रथमं बभूव । मधोः सितादेर्दिनमासवर्षयुगादिकानां युगपत् प्रवृत्तिः' ।। १५ ।। वा० भा०-ननु पूर्वटीकायामनादिरनन्तश्च कालोऽभिहितः । अष्थ च सृष्ट्यादौ तस्य प्रवृत्तिः । प्रवृत्तिर्नाम अादिः । प्रलये तदन्तः । तथा च शास्त्रान्तरे ।

  • कालः पचति भूतानि सर्वाण्येव सहात्मना । कान्ते स पक्वस्तेनैव सहाव्यक्त लयं व्रजेत् ॥' इति तत् कथमनाद्यनन्तः काल उच्यते । सत्यं योऽयं भगवान् मूत्तीं व्यापकश्च कालस्तस्य प्राप्तनप्राकृतिकलयादनन्तरं व्यक्तिजनकानां सूर्यादीनामभावादव्यक्तस्याव्यक्त यदवस्थानं स तस्य लय उच्यते । न त्वात्यन्तिकः प्रलयः कालस्यास्तीति । यत् तूक्तम् । कान्ते स पक्वस्तेनैव सहाऽध्यक्ते लयं व्रजेदिति तत् तेनैवाव्यक्तावस्थानाभिप्रायेण । अतो युक्तमनाद्यनन्तत्वं तस्योक्तम् । तस्याव्यक्तस्य कालस्य सृष्ट्यादौ व्यक्तिजनकानां भग्रहाणां प्रादुर्भावे सति कालस्य व्यक्तीनामपि दिनमासवर्षयुगादीगां युगपदेकहेलया प्रवृत्तिर्बभूव । एतदुक्तं भवति । चन्द्रार्कयोर्मेषादिस्थयोश्र्चत्रस्य शुक्लपक्षादिः प्रतिपत् । अतो मधोः सितादेर्दिनानां सौरादिमासानां वर्षाणां युगानां मन्वन्तराणां कल्पस्य च तदैव प्रवृत्तिः । अथोदयाच्च भानोः । स चोदयः कस्मिन् देशे । लङ्कानगर्याम् । तथा तस्यैव वारे । अादित्यवार इत्यर्थः ॥ १५ ।।

वा० वा०—इदानी कालस्य प्रवृत्तिमाह लङ्कानगर्यामिति । कल्पादिकालस्य युगपत्प्रवृत्तिर्नामादिर्बभूव । कालो द्विविधः नित्योऽनित्यश्च । नित्योऽनित्यश्च* कालौ द्वौ तयोराद्यः *परेशवर: । सोऽवाङ्मनोगोचरश्च देही भक्तद्यनुकम्पय इति । १. अत्र विष्णुधर्मीत्तरपुराणान्तर्गतब्रह्मसिद्धान्ते श्रीमद्भगवद्भृगुसंवादे भगवद्वाक्यम् । 'लड्रायामकोंदये चैत्रशुक्लप्रतिपदारम्भेऽकदिनादावश्विन्यादौ किंस्तुघ्नादौ रौद्रादौ कालवृत्ति: ।' अत एव ब्रह्मगुसः ब्राह्मस्फुटसिद्धान्ते “चैत्रसितादेरुदयाद्वानोदिनमासवर्षयुगकल्पाः । सृष्टयादौ लङ्कायां समं प्रवृत्ता दिनेऽकस्य ॥ ( १ अ० ४२ श्लो० ) अम्यच्च सिद्धान्तशेखरे ‘मधुसितप्रतिपद्दिवसादितो रविदिने दिनमासयुगादयः दशशिरः पुरि सूर्यसमुद्गमात् समममी भवसृष्टिमुखेऽमवन् । ( १ अ० १० श्लो०) २. नित्यो जन्यश्च ख ग० पु० ।। ३. परमेश्वर ख पु० ।