पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/63

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

くく सिद्धान्तशिरोमणौ ग्रहगणिते कलिसंज्ञे युगचरणे पाराशर्यं मतं प्रशस्तमत, इति । नात्र मते सृष्ट्यब्दाः । शेष कल्पादिकं प्राग्वदिति । 'ब्रह्मोत्त ग्रहगणितं महता कालेन तत्खिलीभूतम् । प्रकाशयत इति वदता च विष्णुधर्मोत्तरान्तर्गतब्रह्मसिद्धान्तः स्वोक्तस्य मूलमिति स्पष्टमेवाभिहितम् । तस्मादत्र मते कल्पादितः प्राक् ग्रहसृष्टिः कल्पादौ पूर्वगतिप्रारम्भ : इति निरवद्यम् ।। " विधेर्दिनादौ युगपत् समस्तं भूत्वा ग्रहाः 'प्राग्गमनप्रवृत्ताः । इतीरितं वेदविरोधिनस्ते ब्रह्मार्कचन्द्रादिमताद्विभिन्नाः । *ब्रह्मा प्राह च नारदाय हिमगुर्यच्छौनकायामलम्, माण्डव्याय वशिष्ठसंज्ञकमुनिः सूर्यो मयायाह यत् । प्रत्यक्षागमयुक्तिशालि तदिदं शास्त्रं विहायान्यथा यत्कुर्वन्ति नरा न निर्वहति तद्विज्ञानशून्याश्चिरम् । इति ये वदन्ति त एव विज्ञानशून्या अबहुदृष्टत्वात् । प्रपञ्चितं चैतत् सूर्यसिद्धान्तवासनाभाष्येऽस्माभिरित्युपरम्यते ॥ १५ ॥ इदानीं कालमानानां विभागकल्पनां श्लोकत्रयेणाह। योऽक्ष्णोर्निमेषस्य खरामभागः स तत्परस्तच्छतभाग उत्ता । त्रुटिर्निमेषैर्धृतिभिश्च काष्ठा तत्त्रंशता सद्भगणकैः कलोत्ता ॥१६॥ त्रिंशत्कलाऽऽक्षीं घटिका क्षणः स्यान्नाडीद्वयं तै खगुणैर्दिनं च । Fa ܝܗ ܬܬܐ ܗ 7 ܠܟ ܓ गुर्वक्षरैः खेन्दुमितैरसुस्तैः षड्भः पलं तैर्घटिका खषड्भः ॥१७॥ स्याद्वा घटीषष्टिरहः खरामैर्मासो दिनैस्तैर्द्विकुभिश्च वर्षम् । क्षेत्र समाद्येन समा विभागाः स्युश्चक्रराश्यंशकलाविलिसाः ॥१८॥ वा० भा० योऽक्ष्णोलोंचनयोः पक्ष्मपातः स निमेषः । स यावता कालेन निष्पद्यते तावान् कालोऽपि निमेषशब्देनोच्यते । उपचारात् ॥ तस्य त्रिशद्विभागस्तत्परसंज्ञः । तत्परस्य शतांशस्त्रुटिरिति ॥ अथ च निमेषैरष्टादशभिः काष्ठा ॥ क्वचिच्छास्त्रान्तरे तिथिभिरिति पाठः । काष्ठात्रिशता कलोता । कलानां त्रिशता घटिका । सा चाक्षी । भभ्रमस्य षष्टिभाग इत्यर्थ: ॥ घटिकाद्वयेन क्षणो मुहूर्त्तः ॥ क्षणानां त्रिशता दिनम् ॥ अथ प्रकारान्तरेण दिनमुच्यते ॥ गुर्वक्षरैः खेन्दुमितैरसुरिति । एकमात्रो लघुः । द्विमात्रो गुरुः । तथा “सानुस्वारो विसर्गान्तो दीघो। युक्तपरस्तु यः ।' . ब्राह्मस्फुटसि० १ अ० २ श्लोक : २. प्रगामन क, ख, पु० ॥ ३. सिद्धान्ततत्त्वविवेके चतुर्थचरणे ‘यत्कुर्वन्ति नराधमास्तु तदसद् वेदोक्तिशून्याभृशमिति पाठान्तर प्राप्यते । मध्याधि० ६५ श्लो० ।