पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/64

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारे कालमानाध्यायः १९ इति छन्दोलक्षणे प्रतिपादितम् । यद्दक्षरं सानुस्वारं विसर्गान्तं दीर्घं यस्याक्षरस्य परतः संयोगस्तल्लघ्वपि गुरुसंज्ञं ज्ञेयम् । गुर्वक्षरस्योच्चार्यंमाणस्य यावान् कालस्तद्दशकेर्नकोऽसुः प्राणः ॥ प्रशस्तेन्द्रियपुरुषस्य श्वासोच्छवासान्तर्वत्तीं काल इत्यर्थः । षड्भिः प्राणेरेको पानीयपलम् । पलानां षष्टया घटी ॥ घटीनां षष्टया दिनम् । त्रिशद्दिनैरेको मासः ॥ मासैद्व.दशभिर्वर्षमिति कालस्य विभागो दशितः ॥ अथैतत्प्रसङ्गेन क्षेत्रविभागोऽपि कथितः क्षेत्रे समाद्येन समा विभागा इति क्षेत्रे कक्षायां समाद्येन वर्षाद्येन समस्तुल्याः क्षेत्रविभागा ज्ञेयाः । ते के । चक्रराश्यंशकला' विलिप्साः । यर्थकस्य वर्षस्य मासदिनादयो विभागा एवं भगणस्य राश्यंशादयः ॥ १६-१८ ॥ वा० वा०-इदानों कालमानानां विभागकल्पनां श्लोकत्रयेणाह योऽक्ष्णोरिति । न केवलं सूर्यादय एव कालव्यक्तिव्यञ्जकाः किन्तु निमेषादयोऽपीत्युच्यते । अत्र निमेषस्य सहस्रत्रयमितोंऽशस्त्रुटिरित्युक्तम् । शास्त्रान्तरे निमेषद्वयं त्रुटिरभिहिता । अत्र क्षणपदेन मुहूर्त्त उत्तः अन्यत्र निमेषाष्टकं क्षण इति । अत्र द्विसप्ततिसहस्राधिकनवलक्ष ९७२००० निमेषैरहोरात्रमभिहितम् ।। क्वचित्षष्टिसहस्राधिकैकविशतिलक्ष २१६०००० निमेधैरहोरात्रमुक्तम् । अन्यत्रापि द्वात्रिशत्रसहस्राधिकाष्टपञ्चाशल्लक्षनिमेषे ५८३२००० रहोरात्रमिति । तथा च गाग्र्यः ।

  • ‘अक्षिक्षेपपरिक्षेपो' निमेषः परिकीतितः । द्वौ निमेषौ त्रुटिर्नाम द्वे त्रुटी तु लवः स्मृतः ॥ द्यौ लवौ क्षण इत्युक्तः काष्ठा प्रोक्ता दश क्षणाः । त्रिशत्काष्ठा कला प्रोक्ता कलात्रिशन्मुहूर्त्तकः ॥ ते तु त्रिशदहोरात्र इत्याह भगवान् हरः ।। इति ॥ तथा च मनुस्मृतौ शाकल्ये च परिभाषान्तरमुतम् । निमेषतारतभ्याददोषः। मनुष्यलक्ष्यं परिभाषान्तरमुक्त गुर्वक्षरैः खेन्दुमितैरिति पूर्वपरिभाषया मनुष्यदृग्विषयातीतत्वनिमेषपरिमाणस्याव्यवस्थितिस्वीकारदर्शनाच्च ।

क्षेत्रे समाद्यनेति । . *विकलानां कला षष्टया तत्षष्टया भाग उच्यते । १ पक्ष्म ख ग पु० । , २. परिज्ञेयो इ० मु० पा० पु० । ३. कालस्य परिभाषान्तर वटेश्वरसिद्धान्ते यथा ‘कमलदलनतुल्यः काल उत्तस्त्रुटिस्तच्छतमिह लवसंज्ञस्तच्छतं स्यान्निमेषः । सदलजलधिभिस्तैगुर्विहैवाक्षर तत्कृतपरिमितकाष्ठातच्छरार्धन वासु:' (मध्यमा० ७ श्लो०) । अन्यच्च वृद्धवासिष्ठसिद्धान्ते ‘दशगुर्वक्षरोच्चारकालः प्राणोऽभिधीयते । तत्षट्कैश्च पलं षष्टया नाडीषष्टश्चाक्षजं दिनम् ( १ अ० ४ श्लो० ) ।। अपि च सोमसिद्धान्ते -‘दशगुर्वक्षरः प्राणः षड्भिः प्रार्णविनाडिका । तत्षष्टया नाडिका प्रोक्ता नाडी षष्टच्या दिवानिशम्' । ४. सू० सि० १ अ० २८ श्लो० ।