पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/68

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारे कालमानाध्यायः २३ स्वसन्ध्यकातदंशकैर्निजार्कभागसंमितैः । युताश्च तद्युतौ युगं रदाब्धयोऽयुताहताः ।। २२ ।। मनुः क्षमानगैयुगैर्युगेन्दुभिश्च तैर्भवेत् । दिनं सरोजजन्मनो निशा च तत्प्रमाणिका ॥ २३ ॥ सन्धयः स्युर्मन्नां कृताब्दैः समा आदिमध्यावसानेषु तैर्मिश्रितैः । स्याद्युगानां सहस्रं दिनं वेधसः सोऽपि कल्पो द्युरात्रन्तु कल्पद्वयम् ॥२४॥ शतायुः शतानन्द एवं प्रदिष्टस्तदायुर्महाकल्प इत्युक्तमाद्यैः । यतोऽनादिमानेष कालस्ततोऽहं न वेद्म्यत्र पद्मोद्भवा ये गतास्तान्॥२९॥ वा० भा०-खखाभ्रदन्तसागरैरिति । रविवर्षाणां लक्षचतुष्टयेन द्वात्रिशत्सहस्राधिकेन चतुर्गुणेन कृतं नाम प्रथमो युगचरणः १७२८००० । त्रिगुणेन त्रेतासंज्ञी द्वितीयो युगचरण: १२९६००० । द्विगुणेन द्वापराख्यस्तृतीयः ८६४c०० । एकगुणेन कलिश्चतुर्थ: ४३२००० ॥ किंविशिष्टा एते युगचरणाः । स्वसन्ध्यकातदंशकॅनिजाकभागसंमितैयुंताश्च । युगचरणप्रमाणस्य यो द्वादशांशस्तत्प्रमाणा तस्य चरणस्य सन्ध्या । सा चरणादौ भवति । तार्वांश्च सन्ध्यांशः । सञ्चरणस्यान्ते । एवं स्वसन्ध्यासन्ध्यांशैः सह एते युगचरणाः कथिता इत्यर्थः । कृतादौ सन्ध्यावर्षाणि १४४००० । कृतान्ते सन्ध्यांश: १४४००० । त्रेतादौ सम्ध्या १०८००० ॥ त्रेतान्ते सन्ध्यांश: १०८००० । द्वापरादौ सन्ध्या ७२००० । द्वापरान्ते सन्ध्यांश: ७२००० ॥ कल्यादौ सन्ध्या ३६००० । कल्यन्ते सन्ध्यांशः ३६००० । तद्युतौ युगमिति । तेषां चतुर्णा चरणप्रमाणानां युतौ युगप्रमाणम् ॥ तच्च रदाब्धयोऽयुताहताः ४३२०००० । मनुः क्षमानगैर्युगैरिति । तैर्युगैरेकससत्या मितैरेको मनुः । तैर्मनुभियुगेन्दुभिश्चतुर्दशभिदिनं सरोजजन्मनो निशा च तत्प्रमाणिका ॥ ब्रह्मणो दिनतुल्या रात्रिश्च भवति । प्रमाणिकाशब्देन छन्दोऽपि सूचितम् ॥ अहो एकससतियुगो मनुरुक्तः ॥ ब्रह्मदिने चतुर्दश मनवः एकसप्सतिर्यावच्चतुर्दशभिगुण्यते तावत् षडूनं सहस्रं भवति ॥ स्मृतिपुराणदौ तु । 'चतुयुगसहस्रण ब्रह्मणो दिनमुच्यते । तत् कथमिदमुच्यत इत्याशङ्कां परिहरन् अाह ॥ सन्धयः स्युर्मनूनां कृताब्दैः समा आदिमध्यावसानेष्विति । आदिश्च मध्यानि चावसानञ्च आदिमध्यावसानानि । एवं तानि पञ्चदश ॥ तेष्वादिमध्यावसानेषु मनूनां सन्धयः स्युः ॥ ते च कृताब्दसमकालाः ॥' कृताब्दा यावत् पञ्चदशभिर्गुण्यन्ते तावद्युगषट्काब्दतुल्या भवन्ति ॥ अतस्तैमिश्रितैर्युगसहस्रं ब्रह्मणो दिनमुक्यते । तत् कथमिदमुच्यत इत्यनुपपन्नमित्युपपद्यते ॥ यद्ब्रह्मदिवसोऽपि कल्पसंज्ञः ॥ एवं निशा च तत्प्रमाणकेति । द्युरात्रं तु कल्पद्वयमिति ॥ अस्माद्दिनाद्यत् पूर्वपरिभाषया वर्षशतं तद् ब्रह्मण अायुः ॥ यत् तस्यायुः स महाकल्प इत्युच्यते । ततोऽन्यो ब्रह्मा तदन्तेऽन्य इति पुराणादौ कथ्यते श्रूयते च ॥ विष्णुपुराणे