पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/70

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारे कालमानाध्यायः ૨૧ तच्चारचिन्ता कर्तुं युज्यते ॥ यत्तु कैश्चिदविद्यमानेष्वपि तेषु महाकल्पगताद्वर्तमानाः कृतास्तान् प्रति वक्रोक्त्या सोपहासमाह ॥ तेभ्यो महद्भ्यो नमोऽस्त्विति ॥ २७ ॥ वा० वा०-कस्माद्ग्रहा वर्त्तमानद्युयातात् साध्यन्त इति तत्कारणमाह यतः सृष्टिरिति । ये महाकल्पादेग्रहानयनं कुर्वन्ति तेषां नमोस्त्वित्युपहासः। कल्पादेरेव ब्रह्मदिनादिः स एव पूर्वगतिप्रारम्भकाल इत्यवश्यमेव स्वीकार्यं सौरतन्त्रदक्षैः । अन्यथा यावद्दिनेशदर्शनं तावद्दिनमिति लक्षणेऽव्याप्तिः स्यात् । यत्तु ‘कल्पो ब्राह्ममह’ इत्यत्र यावत्कल्पप्रमाणमुक्तं तत्सम्मितमेव ब्रह्मदिनमानं न तु यदैव 'कल्पादिस्तदैव ब्रह्मदिनप्रवृत्तिः । किन्तु कल्पादेः कृताद्रिवेदतुल्यदिव्याब्देषु शतघ्नेषु गतेषु ब्रह्मदिनप्रवृत्तिरिति व्याख्यानं, तत्र कालविशेषसङ्ख्यावाचकस्य कल्पशब्दस्य सङ्ख्यामात्रपरत्वे ऽदोषः । यथा रवीन्दुयोगात् प्रवृत्तस्य त्रिशक्तिथ्यात्मकस्य चान्द्रस्य पञ्चम्यादितस्त्रिशत्तिथिसङख्यामात्रपरत्वे स्वार्थपरित्याग मन्यन्ते तद्वदत्रापि । सर्वजनसम्मतकल्पप्रवृते: ससन्धिचतुर्दशमन्वात्मकस्य कल्पस्य सौरसम्मतसृष्टयादितःससन्धिचतुर्दशमन्वात्मकपरतायां3 स्वार्थपरित्याग एव महान् दोषः । अथ भवन्मतेऽपि यदि युगपद्ग्रहसृष्टिसञ्चरणं तदा शतपथश्रुतिप्रतिपातिदतक्रामिकसृष्टिविरुध्येत । यदि च कल्पादितः प्राग् ग्रहसृष्टिः कल्पादितो ब्रह्मदिनारभ्भ इति मते यावद्दिनेशदर्शनं तावद्दिनमिति लक्षणेऽतिप्रसङ्गः प्रसज्येत ।। " किञ्च यावत् क्षितिजोपरि रविबिम्बसञ्चारस्तावद्दिनमिति लक्षणेन कल्पादितः प्राग् ग्रहसृष्टावपि गमनापरपर्यायस्य४ सञ्चारस्य कल्पादित एव स्वीकृतत्वात् करतलकलितामलकवत्सकलं भूगोलं पश्यतो ब्रह्मण आाकल्पं रविबिम्बसञ्चारः स्वक्षितिजोपर्येव भवतीति कल्पादित ब्रह्मदिनारभ्भेन किञ्चिद्बाधकम् । तथा मन्मतेऽपि कल्पादावेव रविसृष्टिस्ततः शतघ्नकृताद्रिवेदतुल्यदिव्याब्दैग्रहगतिप्रारभ्भ इति यावद्दिनेशदर्शनं तावद्दिनमिति लक्षणेन किञ्चिद्वाधकमस्तीति । यत्रोभयोः समो दोषः परिहारोऽपि वा समो' नैकः पर्यनुयोक्तव्यस्तादृगर्थविचारण इति ब्रूयात् । प्रतिब्रूयादेनम् । किं भवता कल्पादिरेव ब्रह्मदिनादिस्तत्रैव ६‘आदित्यो ह्यादिभूतत्वादिति’ सूर्यसिद्धान्तोक्तेः सूर्यबिम्बे° सृष्टिरित्यभ्युपगतम् । यावत्स्वक्षितिजोपरि रविबिम्बं तावद्दिनमिति लक्षणश्व (वा?) किमपराद्ध युगपद्ग्रहसृष्टिगतिवादिना । वेदविरोध इति चेत् । स च युगपद्रविगतिसृष्टिवादिनस्तवापि मते समान एव । कथमयमनुक्तोपालम्भः । न च मया युगपत् स्वीक्रियते किन्तु [ *कल्पादौ रविसृष्टि: रविगतिग्रहगतिप्रारम्भ इति। तह्यांत्रापि दूषणमस्ति । क्षयापरपर्याय कल्पान्ते भग्रहाणां लयश्रवणात्] कल्पादितो १. कलादि ख पु० । २. काल्यपप्र’ ख पु० । ३ ताया ख पु० । ४. पयां मस्य ख पु० ॥ ५. सम. क ख ग पु० ॥ ६. सू० सि० १३ अ० १५ श्लो० । ७. बिम्बो क पु० । ८. कोष्ठान्तर्गतोंऽश: ख पु० नास्ति। सि०-४