पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/81

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६ सिद्धान्तशिरोमणौ ग्रहगणिते कुशलेन सांवत्सराचार्यर्णव वत्तुं शक्यते। अत उत्त-प्रौढ़गणकस्वीकृतमिति। अतीन्द्रियार्थविज्ञाने पुरुषबुद्धिप्रभवा कल्पना न प्रभवतीत्यागमङ्गीकृत्येत्युक्तम् । कि तेनापि सुवर्णन कर्णघातं करोति यत् । तथा किं तेन शास्त्रेण यन्न प्रत्यक्षतः स्फुटम् ॥ इत्यागमाविशेषात्कमपीत्युतम् । एतदेव व्यनति ग्रहगणितेत्यादिना । अयमाशयस्तेषामित्यन्तेन तत्र दृष्टान्तमाह-- यथात्र ग्रन्थे* ब्रह्मगुप्तस्वीकृतागमोऽङ्गीकृत इति । अागम एव साम्प्रतोपलब्ध्यनुसारी* प्रमाणं नास्ति । भगणेयत्तासाधनमुपपत्त्येत्युपसंहरति । तर्हि तिष्ठतु तावदुपपत्या भगणानामियक्तासाधनम् । अस्तु वा भगणानामियक्तासाधनं नोपपत्त्या तथापि 3युक्तिरेवोच्यतामित्यत्र नोदयति। अथ यद्युपपतिरुच्यते तहतरेतराश्रयदोषशङ्कया४ वस्फुमप्यशक्या । स्यात्संस्कृतो' मन्दफलेन मध्यो मन्दस्फुटोऽस्माच्चलकेन्द्रपूर्वम् । विधाय शैघ्रयेण फलेन चैवं खेटः स्फुटः स्यात्' *****'। तथा च । - स्फुटग्रहं मध्यखगं प्रकल्प्य कृत्वा फले मन्दचले यथोत्त ॥ ताभ्यां मुहुर्व्यस्तधनर्णकाभ्यां सुसंस्कृतो मध्यखगो भवेत्सः । इति स्पष्टज्ञाने मध्यमज्ञानं, मध्यज्ञाने `°स्पष्टग्रहज्ञानमित्यन्योन्याश्रयदोषः८ । यथेतरेतराश्रयदोषो न स्यात्तथोपपत्ति वक्ष्याम इत्याह । तथापि संक्षिप्तामुपपत्ति वक्षयान्म: १ कथमत्रान्योन्याश्रयनिरास इत्यत्राह। इतरेतराश्रयदोषोऽत्र दोषाभासः । गणितकर्मणा सिद्धस्पष्टाद्यदि मध्यज्ञानं तदेतरेतराश्रयदोषः स्यात् । अत्र यन्त्रवेधोपलब्धस्पष्टान्मध्यज्ञानेनान्योन्याश्रय' इत्यभिप्रायेणीत दोषाभास इति । दोषवदाभासत इति । वस्तुतो' ° नान्योन्याश्रय इत्यर्थः । संक्षेपेणोपपत्तिकथने हेतुमाह-उपपत्तिभेदानां यौगपद्येन वक्कुमशक्यत्वात् । भिद्यन्त इति भेदाः प्रकाराः, ते तु शब्दस्य` क्रमिकत्वाद्युगपद् वक्तुमशक्याः । य एव प्रकारः प्रथममुच्यते स एव कार्यायालं किमनन्तरोत्तद्या तस्मादुक्तं संक्षिप्तामिति ॥ अथोच्यते। अर्कशुक्रबुधपर्यया इति। कल्पे यावन्ति वर्षाणि तावन्तोऽर्कभगणा इति । ‘रवेश्चक्रभोगोऽर्कवर्षं प्रदिष्टम् इत्युक्तेः' । बुधशुक्रौ तु रवेरासन्नत्वात् कदाचिद १. ग्रंथो ख पु० । । २. लब्धन सा ख पृ० । ३. चयतो ख पु० । ४. शंकाया ख पु० । ५. सि० शि० स्पष्टाधि० श्लो० सं० ३४-३५३ । ६. सि० शि० स्पष्टा० ४५ श्लो० । ७. स्पग्रह ख पु० । ८. त्यन्यान्या ख पु० । R स्पष्टन्म ख पु० । % o . स्तुते ख पु० ११. शब्दनस्य ख पु० 1