मध्यमाधिकारे भगणाध्याय: ३७ ग्रतः कदाचित्पृष्ठतस्तस्यानुचराविष्व व्रजन्तौ दृश्येते तस्मात्तयोरपि भगणा रविभगणतुल्या इति । कुजगुरुशनीनां मध्यमानामग्रस्थे मंध्यमाकें मन्दस्पष्टात् स्पष्टग्रहोऽग्रतो दृश्यते पृष्ठस्थे पश्चात् दृश्यत इति । अत एव ‘शनिजीवभूभुवां कीक्तिताः सुगणकैश्चलोच्चजाः' इत्युक्तम् । ननु चलोच्चतुल्यत्वे ग्रहस्य गतिबाहुल्यफलाभावबिम्बाल्पत्वान्युपलभ्यन्ते । तत्र कथं यस्मिन्नग्रस्थेऽग्रतः पृष्ठस्थे पृष्ठतो मध्यात् स्पष्टो दृश्यत इत्यनेन फलाभावमात्रं कार्य स्वकारणचलोच्चज्ञापकमुक्त' भाष्यकृता । यद्यपि कार्यत्रयमध्ये किमपि वक्तव्यमित्युक्तं तथापि *कार्यद्वयोपन्यासानादरोऽभिप्रायान्तरमाक्षिपति3-( इति ?) शून्यहृदयत्वमापद्योत । अत्रोच्यते। यद्यपि गतिबाहुल्यं चलोच्चतुल्यताज्ञापकमस्ति तथाऽपि नेदं प्रागवधारितं यदोच्चतुल्यत्वं ग्रहस्य तदा गतिभूयस्त्वमिति । मन्दोच्चतुल्यतायां गतेः परमाल्पत्वदर्शनात् । तस्माद्गतिबाहुल्यदर्शनं चलोच्चतुल्यत्वेऽकिञ्चित्करम् । बिम्बाल्पत्वमप्यप्रयोजकत्वम् न केवल बिम्बाल्पत्वे चलोच्चतुल्यत्वं कारण सूर्यसान्निध्यस्यापि कारणान्तरस्य विद्यमानत्वात्। किञ्च सौरमते बिम्बविष्कम्भानां त्रिज्यागुणितानां मन्दकर्णचलकर्णयोगाद्धपरपर्यायस्पष्टकर्णभक्तानां स्पष्टत्वाभिधानाद्यदा युगपन्मन्दचलोच्चतुल्यत्वं तदा बिम्बाल्पत्वमिति केवलचलोच्चस्य बिम्बाल्पत्वे पाक्षिकी कारणतेति सम्यगुक्त यतुल्ये ग्रहे४ फलाभावस्तदुच्चमिति । एकस्मिन् सावनाहे कियती रविगतिरिति ज्ञानार्थं सौरवर्षान्तःपातिरविसावनज्ञानोपायस्तावदुच्यते । समायां भूमावभीष्टकर्कटेन त्रिज्यामिताङ्करङ्कितेन वृत्तं दिगङ्कितं भगणकलाड्रितव कृत्वा तन्मध्यकीले सूक्ष्माग्रद्वयवतीं केन्द्रादुभयतो नातिदूरे प्रदेशे तुर्य, वत्कृतवेधकर्णद्वयशालिनी सूक्ष्मशलाका मध्यच्छिद्रवर्ती निवेश्य रवेरुदयो वेध्यः । यस्मिन् दिने दक्षिणक्रान्त्यभावो भविता तस्मिन्ननेहसि प्राचीचिह्माद्दक्षिणतो नातिदूरे प्रदेशे उत्तरेऽयने रविबिम्बाद्धेऽभ्युदिते तथा शलाका चालनीया यथा युगपत् कर्णरन्ध्रान्तोऽ कतेजः प्रविशेत् । एवं कृते शलाकाग्रं यत्र परिधौ स्पृशति तत्पूर्वोदयस्थानमित्युच्यते । ततो वर्षमेकं रव्युदया गणनीयाः, ते च पञ्चषष्टयधिकेन शतत्रयेण तुल्याः भवन्ति तत्रान्तिमोदयः° पूर्वोदयस्थानादासन्नो दक्षिणत एव भवति । तयोरन्तरं विगणय्य ग्राह्यम् । ततोऽप्यन्यस्मिन् दिने पुनरुदयो वेध्यः । स तु पूर्वचिह्नादुत्तरत एव भवति तदप्युत्तरमन्तरं ग्राह्यम् । ततोऽनुपातः यद्यन्तरकलाभिरेकीकृताभिः षष्टिघटिकास्तद १. स्वरणचलो’ख पु० । २. द्वयोपि न्यासा ख पु० । ३. इतः पर, अन्यथा भगणे भाष्यकारस्य इत्यधिक: पाठो दृश्यते खपुस्तके। ४. ग्रह इति ख पु० । ५. दये ख पु० !
पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/82
एतत् पृष्ठम् अपरिष्कृतम् अस्ति