मध्यमाधिकारे भगणाध्यायः ३९, यथोक्तं क्रान्तिवृत्तं भगणांशाङ्कितञ्च कृत्वा कदम्बद्वयकीलयोः 'प्रोतमन्यच्चलं ग्रहवेधवलयं तच्च भगणांशाङ्कितं कार्यम् । ततस्तद्गोलयन्त्रं सम्यग् ध्रुवाभिमुखयष्टिकं जलसमक्षितिजवलयञ्च यथा भवति तथा स्थिरं कृत्वा गोलस्थमीनान्तं* रेवतीतारायां निवेश्य गोलमध्यस्थ दृष्ट्या ग्रहोऽवलोकनीयः । ततो वेधवलयं ग्रहोपरि निवेशनीयम्* । तद्वेधवृत्तं यत्र क्रान्तिवृत्ते लगति तस्य मीनान्तस्य यदन्तरं स तस्मिन् काले स्पष्टो ग्रहो ज्ञेयः । वेधवृत्ते यत्क्रान्तिवृत्त-वेधवृत्त* सम्पाताद्ग्रहपर्यन्तं यदन्तरं सोऽस्फुटशरो वेद्यः" । एवमन्वहं ६ स्पष्टग्रहोऽवलोकनीयः । पूर्वं यस्मिन्नेव काले दृष्टस्तस्मिन्नेव काले द्वितीयदिवसेऽपि वेध्यः । ततः '°'स्फुटग्रहं मध्यखगं प्रकल्प्य कृत्वा फले मन्दचले तथोत्त । याभ्यां मुहुव्र्यस्तधनणकाभ्यां सुसंस्कृतो मध्यखगो भवेत् सः । इत्यनेनाद्यतनश्वस्तनमध्यमौ ज्ञेयौ । तयोरन्तरं मध्यमा गतिः । तया त्रैराशिकेन कल्पभगणाः साध्याः । एवमिदं ग्रहभगणसाधनं ब्रह्मगुप्तेनाप्युक्तत्वान्नास्माकमसम्बद्धाभिधायित्वमापादयतीत्याहतथा चाह श्रीमान् ब्रह्मगुप्तः
- ज्ञातं कृत्वा मध्यं ( म? ) भूयोऽन्यदिने तदन्तरं भुक्तिः । त्रैराशिकेन भुक्त्या कल्पग्रहमण्डलानयनम् । मन्दतुङ्गचलतुङ्गभगणज्ञाने किल ग्रहभगणज्ञानमुक्तम् । कथं पुनर्मन्दचलोच्चभगणज्ञानम् । किमत्र वक्तव्यम् । उत्तमेवास्माभिः सौरभाष्ये । तद्यथा तत्र तावद्ग्रह-- च्छाया लक्षणीया । सा चैवम् ।
- पश्येज्जलादौ प्रतिबिम्बितं वा खेट दृगौच्यं गणयेच्च लम्बम्। तल्लम्बपातप्रतिबिम्बमध्यं दृगौच्च्यहृत् सूर्यहतं प्रभा स्यात्।
इति छाया भवति । तस्याः दिनगतसाध्यम् । तद्भूपृष्ठस्थक्षितिजादूर्ध्वं भवति । गतिविधिनापि दिनगतमानयेत्। तद्भूगर्भस्थक्षितिजादूध्र्व भवति। तासां नाडीना-' मन्तरं कृत्वा, अनुपातः कार्यः यद्यनेनान्तरेण भूव्यासार्धयोजनानि लभ्यन्ते तदा षष्टिघटीभिः किमिति स्पष्टा ग्रहकक्षा भवति । चन्द्रादिकक्षासु परिधिषण्णवत्यंशस्य धनुज्र्यातुल्यत्वस्वीकारात् ॥ शाकल्ये । यः परिधेः षण्णवत्यंशो दण्डवद्यः समः स तत् । १. प्रेतमिति ख पु० । २. मिना 'ख पु० । २ निवेशनिय इति ख पु० । ४. वेधवृत्तेति ख पु० न लभ्यते । ५ वद्य ख पु० ॥ ६. मन्वहः, इति ग पु० । ७. सि० शि० स्प० ४५ श्लो० ॥ ८. ब्राह्म स्फु० १९ अ० १२ श्लो० । ९. ग्र० ला० ग्रo छा० २ श्लो० ॥ १०. मंन्त कृ० ख पु० । ११. धटिभिः क पु० ।।