Yo सिद्धान्तशिरोमणौ ग्रहगणिते इत्युक्तेर्धुयातान्तरघटीभिर्भूव्यासार्द्धयोजनानि लभ्यन्ते तदा षष्टिघटीभिः किमित्यनुपातो युक्तः । ततः `कक्षापरिधेव्यसार्द्धं साध्यम् । स योजनकर्णो भवति । परमाधिकाल्पयोजनकर्णयोयोंगार्ध मध्यमकर्ण: 2 । यद्वा चन्द्रकक्षां स्पष्टां ज्ञात्वा स्पष्टगत्या इयं तदा मध्यगत्या केति चन्द्रमध्यकक्षा स्यात् । सा चन्द्रभगणगुणा स्वस्वभगणभक्ता* स्वस्वमध्यकक्षा स्यात् । तस्याः व्यासार्धं मध्यमयोजनकर्णो भवति । ग्रहरेवतीसंयोगादन्यसंयोगोपलक्षितकालेन भगणज्ञान सुलभम् । स तु लिप्ताश्रुतिघ्नस्त्रिगुणेन भक्तः स्पष्टो भवेद्योजनकर्ण एवम्' इति जातः । तस्मात् स्पष्टयोजनकर्णस्त्रिज्यागुणो मध्यमयोजनकर्णस्त्रिज्यागुणो मध्यमयोजनकणभक्तशचलकणों भवति । ग्रहस्य कक्षाचलकर्णीनिघ्नी स्फुटा भवेद्व्यासदलेन भक्ता । तद्व्यासखण्डान्तरितः कुमध्यात् स भ्राम्यते हि प्रवहानिलेन । इत्युक्तेः । एवमिष्टदिवसे चलकर्णः° साध्यः । एवमन्वहं ६ शरा वेद्याः । यत्र दक्षिणशराभावस्तत्र यावान्° ग्रहः स भगणशुद्धः पातो ज्ञेयः । एवमसकृत्पातगतिज्ञेया । तया पातभगणज्ञानं चन्द्रादीनाम् । सपातमन्दस्पष्टदोज्यायाः शीघ्रकर्णतुल्यत्वें यावान् शर उपलभ्यते स पठितशर इत्युच्यते । असौ सपातमन्दस्पष्ट्दोज्यगुण इष्ट्शीघ्रकर्णभक्त इष्टशरो भवति । तस्माद्वेधसिद्धशरोऽभिमतस्त्विष्टशीघ्रकर्णगुणस्त्रिज्याभक्तो यावान् सम्पद्यते स एव शरो वेद्यः । एवमन्वहमेतादृशः शरो वेद्यः । एवमीट्टशः शरो यदा परमो भवति स एव पठितशरस्तत्र सपातमन्दस्पष्टदोज्र्या त्रिज्यातुल्या' । एवं पठितशरं ज्ञात्वा वेधेनेष्टशरच्च ज्ञात्वेष्ठसपातमन्दस्पष्टदोज्याज्ञानोपायः'° । वेधसिद्धेष्टशरः कक्षाप्रकारावगतचलकर्णगुणः पठितञ्शरभक्तः सपातमन्दस्पष्टदोज्य स्यात् । तस्या धनुः सपातमन्दस्पष्टः स्यात् ।' ' [ पातोनो मन्दस्पष्टः स्यात् ।। ] एवं प्रत्यहं मन्दस्पष्टो वेद्यः । यत्र मन्दस्पष्टगतेरल्पत्वं तद्दिने यावान्मध्यमस्ततुल्यमुच्चं ज्ञेयम् । एवं 'कालान्तरेणोच्चगतिः । यदा शीघ्रकर्णः परमस्तदा यावान् ग्रह उपलभ्यते वेधेन तत्तुल्यमेव शीघ्रोच्चं वेद्यम् । परमशोघ्रकर्णस्य त्रिज्यायाश्चान्तरं शीघ्रान्त्यफलज्या। ततः प्रात्यहिकशीघ्रफलज्ञानं सुगमम्। परमाधिकपरमाल्पमन्दस्पष्टगत्योयोंगार्ध मध्यमा गतिः । गतिर्नामाद्यतनश्वस्तनग्रहयोरन्तरं प्रसिद्धम्। १. वक्षा क पृ० । २. मध्य क पु० । ३. गत्येयं कग, गत्यं ख पु० । ४. भक्तया ख, तक्ता ग पु० च । ५. चकर्णः खपु० ॥ ६. सारा खपु० ॥ ७. यावत् खपु० ॥ ८. वल्पत्वे गपु० । ९. तुल्य इ० खपु० ॥ १०. ज्ञाने तु ख ज्ञाने उपा’गपु० च। ११. अयमंशः ख पुस्तके नावलोक्यते । १२. ज्ञालां खपु० । -
पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/85
एतत् पृष्ठम् अपरिष्कृतम् अस्ति