पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/9

एतत् पृष्ठम् अपरिष्कृतम् अस्ति



। श्रीहनुमते नमः ।

भूमिका

सिद्धान्तज्योतिर्गतमहमालोको यदाशिषा किञ्चित् ।
प्रापं परम श्रीगुरुमवधबिहारित्रिपाठिन वन्दे। १ ॥
देव्याः श्रीसङ्कटाख्यायाः प्रसादसदृशं वरम् ॥
श्रीसङ्कटाप्रसादं वै गुरुं वन्दे यशस्करम् ॥ २ ॥
सर्वविदितमेवैतद् भारतीयानां विपश्चितां यदिह जगति जनिमतां स्वंत: श्रेयोमार्गप्रदर्शको वेद एव । स्,मग्रं ज्ञानं वेदेषु सन्निहितमस्तीति भारतीया अपरे विद्वांसश्च मन्वते। अत्रान्वेषयतां सतां याथार्थन कश्चिदपि विषयो नानुपलभ्यो वर्तते। वेदस्यास्य ज्ञानप्रवर्तकानि तत्षडङ्गभूतानि शिक्षा-कल्प-व्याकरण-ज्यौतिष-निरुक्त-च्छन्दःशास्त्राणि प्रचक्ष्यन्ते । तथा चाह भास्कराचार्य:-
शब्दशास्त्रं मुखं ज्योतिषं चक्षुषी
श्रोत्रमुक्तं निरुक्तश्च कल्पः करौ ॥
या तु शिक्षास्य वेदस्य सा नासिका
पादपद्मद्वयं छन्द-अाद्यैर्बुधैः ॥*
 इत्यनेन षडङ्गेषु ज्यौतिषस्य परिगणनं वर्तते । षडङ्गेषु कथमवस्थानमाचार्यभास्करेण कृतमिति प्रश्नस्यापि समाधान तरेव विहितमस्ति। यथा-
वेदास्तावद्यज्ञकर्मप्रवृत्ता ।
यज्ञाः प्रोक्तास्ते तु कालाश्रयेण ॥
शास्त्रादस्मातू कालबोधो यतः स्याद्
वेदाङ्गत्वं ज्योतिषस्योत्तमस्मात् ॥*
अस्मान् वेदो यज्ञं प्रति प्रवर्तयति । सुष्टुकाले कृतमेव यज्ञादिकर्म साफल्यं भजते, अकाले विहितं कर्म वफल्यं प्रयातीति कालज्ञानं ज्योतिशास्त्रादेव जायते,


१. सि० शि० ग्र० ग० का० मा० १० श्लो० ।
२. सि० शि० ग्र० ग० का० मा० ९ शली० । ।