पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/97

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५२
सिद्धान्तशिरोमणौ ग्रहगणिते

घटिकास्तदा राश्यादिकलाभिः किमिति घटश्यादि साध्यम् । ऊनितं चन्द्रमासैरित्यत्र चन्द्रमासा एव दिनानि । तदधो यत् तद् द्विगुणं विधाय घटिकाद्यं भवति ।

 अत्रोदाहरणम् एकस्मिन् सौरवर्षे चन्द्रचक्राणि सावयवानि ॥१३॥४॥१२॥ ४६॥३०॥ अत्र राश्याद्यस्योक्तप्रकारेण घटिकाः ॥२२॥७॥४५॥ एता दिनस्थाने चन्द्रचक्रयुताः ॥ एवं जातानि चन्द्रचक्राणि ॥१३॥२२॥७॥४५॥ एतानि चान्द्रदिवसैरेभिः ॥३७१॥३॥५२॥३०॥ युतानि ॥३८४॥२६॥०॥१५॥ जातं चन्द्रचक्रदिवसैक्यम् । इदं चन्द्रमासैरेभिः ॥१२॥११॥३॥५२॥३०॥ रूनं कार्यम् । तत्र सजातीयकरणाय चान्द्रमासाधो यद्दिनादि तद्विगुणं घटिका इति सम्पादितघटीभिश्चान्द्रमासतुल्यदिनैरेभि ॥१२॥२२॥७॥४५॥ रूप्नं जातम् ॥३७२॥३॥५२॥३०॥ इदं भभ्रत्रमैरेभिः ॥३६६॥१५॥ ३०॥२२॥३०॥ रूप्नं जाता दिनक्षयाः ॥५॥४८॥२२॥७॥३०॥ इदं भाष्यकृदनुक्तमप्यूह्यम् ।

 चन्द्रचक्रदिवसैक्यमित्यत्र वासना प्रकारान्तरेणोच्यते ।

 रविसावनोनाश्चान्द्रास्ते दिनक्षया भवन्ति । केवलयो: शोध्यशोधकयोर्यावदन्तरं तावदेवेष्टसंयुक्तयोरपि स्यादिति चन्द्रचक्रतुल्यमिष्टं चान्द्रदिवसेषु संयोज्य जातश्चन्द्रदिवसैक्यतुल्यः शोधकः । तथैव *रविभगणोनभभ्रमापरपर्यायेषु रविसावनेषु चन्द्रचक्रतुल्यमिष्टं योजितं जातश्चन्द्रमासभभ्रमयोगतुल्यः शोध्यः । भभ्रमेषु रविभगणाः शोध्याश्चन्द्रचक्राणि च क्षेप्यानि । तत्र शोध्यक्षेप्ययोरेवान्तरे क्रियमाणे अन्तरं 'तरणिचन्द्रचक्रजम् इत्यनेन चान्द्रमासा जाताः । त एव भभ्रमेषु योजिता इति सर्वं निरवद्यम् ॥

 नन्वेवं वासना लाघवे धनर्णप्रकारगौरवेण वासना कथनमाचार्यस्य न युक्तमित्यत आह । एतच्छिष्याणां धनर्णयोगवियोगकोशलार्थं दशितम् । अयमर्थः ‘संशोध्यमानं स्वमृणत्वमेति' इत्यस्याव्यक्तगणितोत्तस्य वासना प्रदर्शनार्थमयं प्रकार उक्तः । चन्द्रमासभभ्रमयोगविवजितस्य चन्द्रचक्रदिवसैक्यस्य दिनक्षयतुल्यत्वान्यथाऽनुपपत्त्या संशोध्यमानस्य धनर्णव्यत्यासो युक्त इति भावः ॥ १३ ॥

इदानीमन्यदाह ।

इन्दुमण्डलगुणेन्दु १३ सङ्गुणब्रन्धचक्रविवरेऽधिमासकाः |
खेचरोच्चभगणान्तरोन्मिताः सन्ति मन्दचलकेन्द्रपययाः२ ।। १४ ॥


१. भगणेन ग पु० ।

२.

एषां पर्ययाणां निबन्धनश्लोका वापूदेवशास्त्रिकृताः ।
‘‘मन्दकेन्द्रभगणा नखेषुगोनन्दनन्दनवभूत्रिसागराः ४३१९९९९५२० ।। तीक्ष्णगोद्विमनुवेदनवाब्जाक्षाङ्गपक्षनगसायका विधो: ५७२६५१९४१४२ ॥
खरामाश्व्यहिद्व्यटषङ्गोद्विदस्रा २२९६८२८२३०
गजाङ्गाङ्गगोगोङ्कगोभूत्रिवेदाः ४३१९९९९६६८ ॥