पृष्ठम्:सिद्धान्तशेखरः.pdf/१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भूमिका ‘मरीच’ च तत्तत्प्रसङ्गं प्रमाणत्वेन संग्टहीताः कतिचन सिद्धान्त शेखरलोकाः भास्करसिद्धान्त शिरोमणः सम्पादकेन नामतः संशोधकेन मद्दभहपाध्यायेन श्रीबापूदेवश्शाविणा तट्टिप्पणीधुपन्यस्ता एव–साम्प्रतं सिद्धान्तशेखरय लुम्नाव शेषोंऽश इति ज्योतिर्विदां विदुषां समाजे प्रसिद्धम् । अथ कलकत्ताविश्वविद्यालयप्राणभूतानां पुण्यक्षोकानां प्राचीन स तिकीर्तिः पुनरुचत्तुं ण श्रीमदाशतोषसुखोपाध्यायानामदेशेन कलकत्ता विश्वविद्यालय गणिताध्यापकः श्रीमान् नरेन्द्रकुमारमजुमदारमहोदय दक्षिणभारते सधूस, द्वावङ्गेर, कोचीनवडोदा, महीशूरमऋतिनगरेषु प्राचीनज्यौतिष गणितग्रन्थानामनुसन्धानाय गत्वा तत्तनगरस्थपुस्तकालयेभ्यो बझ नमसुद्रितानां ज्यौतिषगणितग्रन्थानां तामिल, तेलगू, मलयालम्, कार्णाटकनामभिर्दक्षिण भारतप्रसरितैरक्षरैर्लिखितानां नामावलमकामानयत् । तत्र चाहं द्वित्रिविधं “सिद्धान्तशेखरस्य ' प्रत्यन्तरमप्यस्तीति विलोक्य सानन्दमनाः प्रथमतस्तदवलोकनयोत्कण्ठितचित्तः सर्वमपि विदितं सिडन्त शेखरसम्बन्धि वृत्तं नरेन्द्रकुमारमजुमदारमहोदयाय (कथयम् । स्वतः प्रश्वत्तोऽपि मृतः सम्यगवगतष्ठत्तः सोऽयं मजुमदारमहोदयः सिद्धान्तशेखरस्य देवनागराक्ष रैः प्रतिलिपीकरणाय तत्तद्देशीयान् पुस्तकालयस्वामिनः सविनयं संप्रार्थं प्राप्तवान् प्रथमं द्वङ्गीरराजकीयग्रन्थागारतः Travancore Palace Library-समागतं ‘मलयालम् इत्यख्यैरक्षरैर्लिखितपुस्तकात् देवभागराक्षरैः प्रतिलिखितं मूलमानसम्पूर्ण सिद्धान्तशेखरम्। अथ चैतत् पुस्तकमशदिबहुलमपि संशोध् प्रकाशयितुमवमर्दामीति मत्तोऽवगत्य मत्संशोधितानि पञ्चषाणि प्रमण्येव प्रकाशनोपयुक्तानि विलोक्य च सत्वरमेव श्रीमदाशतोषसुखोपाध्यायानामनुकम्पया मुद्रणाशमवाप्य च विश्वविद्यालययन्त्रालये मुद्रणथुमदात् । फरमाद्यपतन्तं ससंशोधितो मूल ग्रन्थोऽशखैरादर्शपुस्तकपालैः सहितो मुद्रितोऽप्यभूत् । अस्मिन्नेवावसरे मड्रासतः Madras Government Orianta Manns cripts Library महिभट्टलतटीकासहितं सिद्धान्तशेखरस्य पुस्तकान्तरमपि ‘लघू’ इत्याख्यैरक्षरैर्लिखितपुस्तकात् देवनागराक्षरैः प्रतिलिपौरुतं अन्यदितः प्रायः पञ्चाशत्पृष्ठमकमागतम् ।