पृष्ठम्:सिद्धान्तशेखरः.pdf/२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रन्थपरिचयः ३१ (८) पाताध्यायो ब्रह्मगुप्तलल्लयोः सदृश एवोतः श्रीपतिना । अत्र च “त्रिस्कन्धविद्यनिपुणैकमल्लो तल्लोऽपि यत्राप्रतिभो बभूव । जातेपि किञ्चिद्भणिताधिकारप्रताधिकारेि मंम नाधिकारः ॥“ इति गणकानां मध्ये विदितः लोकः पतेः सम्बन्धेऽपि तादृश एवति भास्कराचार्येण ‘अत्र त्रिनवभवनजता क्रान्तिरित्यादिना शेखरोक्तलक्षणेन' इति प्रतिपदोक्तया श्रीपयुक्तपाताध्यायः खण्डितोऽप्यस्ति । (८) उदयास्ताध्याये --प्राचीनतमायनं दृक्कर्म प्रकाराभ्यामु- “‘खनभोऽतिभिः समाहृतं प्रथमं दृक्फलमायनाश्रयम् । युचरश्चितभोदयासुभिर्विहतं स्पष्टमिह प्रजायते ॥ “ इत्यनेन तस्य स्फुटीकरणं श्रीपतिऊतमालोक्य भास्कराचार्येण ‘आयनं वलनम- स्फुटेषुणे' त्यादिना तदेवोक्तमिति मदौय विवरणे स्पष्टमेव । अन्येऽपि तत्त्रयोक्ता विषयाः स्फुटतया श्रीपतिनोत् इति । (१०) चन्द्राध्याये वराह ब्रह्मगुप्तल लाचार्याणां बहवः ओोका अनूदिताः श्रीपतिनेति वस्तुतो नास्ति कश्चिद्विशेषः । केवलं चन्द्रस्य स्पष्टचरानयने परिलेखा सूत्रप्रमाणानयने च बहून्येव प्रकारान्तराणि ह्यैर्निजप्यैः स्फुटतया लिखितानीति । (११) ग्रहयुद्धाध्याये ग्रहयोगाध्याये वा “अन्यभ्रमेण गुणिता रविबाहुजीवा ऽभीष्टघ्रमेण विहृता फलकामंकण । बाहोः कलासु रहितस्खवशेषकं ते यातासवो युगयुजोः पदयोर्धनणंम् ॥“ इत्यनेन पत्युक्तां दृगणितैक्यवत् कर्मव भास्कराचार्येण उदयान्तरकर्मेति नान बहुधोक्तमुपपादितं च । वराहब्रह्मगुप्तचत्राचारैरनुक्तमिदं कर्म भस्कराचार्येणे- वानुभूतमिति सिद्धान्तश्शेखरस्यालाभे _ सासातिकानां प्रतीतिरासीत् । तदिद सुदान्तरकर्म श्रीपतिरव प्रथमं स्वबुध्या कथयामासेति सम्प्रति प्रतीयते । अथ ‘त्रिभविरहितचन्द्रचोनभस्खजज्या गगनष्टपविनिर्न भत्त्रयज्याविभत । ,