पृष्ठम्:सिद्धान्तशेखरः.pdf/३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रन्यपरिचयः २५ (१७) राङनिराकरणाध्यायस्तत्र राङ्सम्बन्धे पौराणिकान बहूनां प्राचौना चार्याणां च सतानि रविचन्द्रयोषं क्षणे पुराणमतं ज्यौतिषमतं च भिन्नमित्यनयोः समाधामप्रश्रुति पञ्चदशभिः १५ श्लोकैः सम्यगुतमिति । (१८) ग्रहोपपत्तिवर्णनाध्यायस्तत्र सूर्यग्रहण लम्बनावनतिसंस्कारयोरुप- पादनं चन्द्रग्रहणे तदनुक्तश्च कारणं तदनु चन्द्रस्थंग्रहणसम्बन्धिनोऽनेके विशेषाद्यष्टादशभिः १८ लोकैः सयुक्ति विवेचिताः । (१४) यन्त्राध्ययस्तत्र गोलचक्रप्रभृतीनां दशानां यन्त्रणां नामानि लं क्षणानि च तद्वशतो रवेर्नतांशादीनां समयस्य चावगमः सुगम विधिना षड् विंशत्या २६ श्लोकैः कृतः । (२०) प्रश्नाध्यायस्तत्र येषां प्रश्नानामुत्तराणि प्राक्प्रतिपादित सिद्धान्त शेखरोक्तरीत्या भवितुमर्हन्ति तादृशाश्चतुर्विंशतिः प्रश्नास्तदनु ग्रन्योपसंहरति सुमनोरमैरष्टविंशत्या २८ लोकेः क्ताः सन्तीति ॥ उत्तरार्धस्थानमष्टानामध्यायानां विशेषतो विषयविवेचनं सिद्धान्तशखर स्योत्तरार्धे विद्यते मुद्रिते च करिष्यामीति मनसि कृत्वा सम्प्रत्येतावदेव निवेद्य विरमामति । अथास्य सिद्धान्तशेखरस्य किमपि व्याख्याविवरणादिकं सम्प्रति नोपलभ्यते नापि नामापि कस्यचन व्याख्याभायादेः धूयते । केवलं मकिभट्ट कहा, ‘गणितभूषणाख्या ’ व्याख्या । आदितश्चतुर्थाध्यायस्य त्रिप्रश्नाध्यायसंज्ञकस्य पञ्चसप्तति ७५ ओोकपर्यन्तमुपलब्धाऽस्माभिर्मुद्रिता सैव केवलमस्तीति वक्र शक्यते । अयं टीकाकारो मक्किभेट्टः “वदध्याकरणश्रयः सुकवितावदान्ततकंस्मृति च्छन्दोऽलङ्कतिकाव्यनाट्कपुराणाद्यवारांनिधिः। ज्योतिश्शास्त्रसुमन्त्रनीतिनिपुणो यो योगशास्त्रे पटु मॅक्काख्यो विवृणोति भट्ट ऋतवाक सिद्धान्तस सच्छखर’ ।” इति तदुतय सकलशास्त्रपारंगम आसीदिति विदितं भवति । सिद्धान्तः शेखरव्याख्यावलोकनेनापि व्याकरणे पटीयान् काव्यसाहित्ययोश्च सुनिपुण आसीदिति बहुधेव प्रकटी भवति । अयं चैकोनत्रयोदशशत १२८८ शकाब्दे D