पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

उदारप्रशंसा-कृपणनिन्दा
७१
यदमुना न तावत्क्षतिः । अहर्निशमिहैव ये परमनोनुवृत्त्या
पुनर्वहन्ति विजिगीषुता किमिव तेऽनुकम्पास्पदम् ॥ ३९ ॥
भुज्यन्ते स्वगृहस्थिता इव सुख यस्यार्थिभि. सपदः पद्वी
यस्य मतिस्तमःप्रहतये द्वावेव तैौ प्राणितः । यस्त्वात्मभरि-
रुन्नतेऽपि विभवे हीनश्च विद्वत्तया तस्यालेख्यमणेरिवा-
कृतिधृतः सत्ताप्यसत्ता ननु ॥ ४० ॥ अाधाराय धरावका-
शविधयेऽप्याकाशमालोकने भास्खानात्ममहत्त्वसाधनविधा-
वन्ये गुणाः केचन । इत्यस्मित्रुपकारकारिणि सदा वर्गे पर
दुस्ल्यजे दैन्यव्रीडकलङ्कमुज्झतु कथं चेतो महाचेतसाम्
॥ ४१ ॥ निल्य या गुरुभृत्यबन्धुसुजनैर्न स्वेच्छया भुज्यते
पश्यन्ति स्पृहयालवो न रिपवो या विक्रमासादिताम् ।
यस्याः साधुपरिक्षयेण सुहृदा नाशेन वा सभवो नो सप-
द्विपदेव सा गुणवता प्रीतिस्तया कीदृशी ॥ ४२ ॥ न्याय्य
मागैमनुज्झतः सुकृतिनो दैवाद्भवन्त्यापदो यास्ताः सन्तु
बलेरिवादिपुरुषायोर्वाँ खय यच्छतः । शक्रस्येव जुगु-
प्सितैः सुबहुभिर्निन्द्यैर्भूश कर्मभिर्देवानामुपरि प्रभुत्वमपि
मे मा भूत्रपाकारणम् ॥ ४३ ॥ रुद्रोऽद्रिं जलधेि हरिर्दि-
विषदो दूर विहायःश्रिता भोगीन्द्राः प्रबला अपि
प्रथमतः पातालमूले स्यिता. | लीना. पद्मवने सरोजनिलया
मन्येऽर्थिसार्थाद्भिया दीनोद्धारपरायणाः कलियुगे सत्पूरुषाः
केवलम् ॥ ४४ ॥
कृपणनिन्दा
कृपणेन समो दाता न भूतो न भविष्यति । अस्पृशन्नेव
वित्तानि यः परेभ्यः प्रयच्छति ॥ १ ॥ यर्दैज्र्यते परिष्लेशै-
रर्जितं यन्न भुज्यते । विभज्यते यदर्नतेऽन्यै. कस्यचिन्मास्तु
तद्धनम् ॥ २ ॥ यत्करोत्र्यैरतिं हेलेशं तृष्णा मोहं प्रजाग-
रम्। न तद्धनं कैदर्याणा हृदये व्यैौधिरेव सः ॥ ३ ॥ मृत्युः
धनरक्ष वसुंधरा l दुश्चारिणी च हसति स्खपति
पुत्रवत्सलम् ॥ ४ ॥ त्यागभोगविहीनेन धनेन धनिनो
यदि l भवामः किं न तेनैव धनेन धनिनो वयम् ॥ ५ ॥
दानोपभोगरहिता दिवसा यस्य यान्ति वै । स लोहकार-
भस्रेव श्वसन्नपि न जीवति ॥ ६ ॥ अबुधैरर्थलाभाय पण्य-
ख्रीमिरिव स्खयम् । अात्मा संस्कृत्य सस्कृत्य परोपकरणीकृतः
ll ७ ॥ कृपणेन शवेनेव मृतेनापि न दीयते | मास वधैयता
तेन र्कैीकखोपकृतिः कृता ॥ ८ ॥ बोधयन्ति न याचन्ते
भिक्षैीाद्वारा गृहे गृहे । दीयता दीयता नित्यमदातुः फल-
मीदृशम् ॥ ९ ॥ द्वारं द्वार रटन्तीह भिक्षुकाः पात्रपाणयः ।
दशैयन्त्येव लोकानामदातुः फलमीदृशम् ॥ १० ॥ न
दातुं नोपभोक्तु च शक्रोति कृपण. श्रियम् | केि तु स्पृशति
हस्तन नपुंसक इव स्त्रियम् ॥ ११ ॥ किंशुके कि शुकः
कुर्यात्फलितेऽपि बुभुक्षितः । अदातरि समृद्धेऽपि केि कुर्यु-
रुपजीविनः ॥ १२ ॥ वरं विभवहीनेन प्राणैः संतर्पितो-
ऽनलः | नोपचारपरिभ्रष्टः कृपणः प्रार्थितो जनः ॥ १३ ॥
उदारचरितस्त्यागी याचितः कृपणोऽधिकः | एको धनं
ततः प्राणानन्यः प्राणास्ततो धैनम् ॥ १४ ॥ नोपमोक्तुमपि
क्लीबो जानात्युपचिता श्रियम् । ग्राम्यो विरागयत्येव रम-
यन्नपि कामिनीम् ॥ १५ ॥ कृपण. खवधूसङ्ग' न करोति
भयादिह | भविता यदि मे पुत्रः स मे वित्तं हरेदिति
॥ १६ । यदधोऽध, क्षितैौ वित्तं निर्वैखान मितपचः ।
तर्दैधोनिरय गन्तु चक्रे पन्थानमग्रतः ॥ १७ ॥ निजसौख्यं
निरुन्धानो यो धनाजैनमिच्छति । परार्थ भारवाहीव लेश-
खैव हि भाजनम् । १८ ॥ असभोगेन सामान्यं कृपणस्स
धनं पैरैः । अखेदमिति संबन्धो हानैौ दुःखेन गम्यते
॥ १९ |॥ सति द्राक्षाफले क्षीरे मृदामास्वादर्न मुदे |
अहो मातुरियं रीतिः कृपणे गर्भवर्तिनि ॥ २० ॥ अदातु-
मनस कापि न स्पृशन्ति कवेर्गिरः |
विलासास्तरुणीकृताः ॥ २१ ॥ शरणं केि प्रपन्नानि विषव-
न्मारयन्ति क्रिम् । न त्यज्यन्ते न भुज्यन्ते कृपणेन धनानि
यत्॥ २२ ॥ धनं यदिह मे दत्से विधे मा देहि कर्हिचित् ।
औदार्य धनिनो देहि यन्मदीये हृदि स्थितम् ॥ २३ ॥
वीणेव श्रोत्रहीनस्य लोलैीक्षीव विर्चक्षुष' । ठँयसोः कुसु-
ममालेव श्रीः कदयैख निष्फला ॥ २४ ॥ लुब्धो न
विसृजत्यर्थे नरो दारिद्यशङ्कया । दातापि विसृजत्यर्थ र्तयैव
ननु शङ्कया॥२५ ॥ या विपत्तिधैनापाये नदा भोगिवदान्ययोः।
प्रज्ञापकर्षीत्प्रागेव प्राप्ता हि कृपणेन सा ॥| २६ ॥ गृहमध्य-
निखातेन धनेन रमत यदि । स तु तेनानुसारेण रमते केि
न मे॒रुणा ॥ २७ ॥ अतिस॒च्चयकर्तृणा वित्तमन्यस्य कारणात् ।
अन्यैः सचीयते यत्त्रादन्यैश्च मधु पीयते ॥ २८ ॥ विड-
म्बनैव पुंसि श्रीः परप्रणयपासुले । कान्ति कामिह कुर्वीत
कुणौ कटककल्पना ॥ २९ ॥ कृत्वोपकारं यस्तख्माद्वाञ्छति
प्रत्युपक्रियाम् | दीनस्तृष्णाविधेयत्वाद्वान्तमप्युपलेढि सः
॥ ३० ॥ दैववशादुत्पन्ने सति विभवे यस्य नास्ति भोगेच्छा ।
१ संपायते २ अव॒साने ३ अस्वस्थत्वम् ४ विचाराशर्त्तिक

  • कृपणानाम्. ६ पीडैव ७ कस्य का उपकृतिरूपकार कृता, अपि

तु न कस्यापि कापील्यथै , पक्षे,-काकस्य पक्षिण
१ भिक्षुका इति शेष २ ल्यजतीति शेष ३ अारोपयामास
४ नरकम् ५ चञ्चलाक्षी मृगनयनेति यावत् ६ अन्धस्य
७ प्राणरहितस्य, प्रेतस्येति यावत् ८ दारिश्द्यशंङ्कयैव