पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१११

एतत् पृष्ठम् परिष्कृतम् अस्ति

64 सौन्दरनन्दं काव्यम्

यत्रेष्टचेष्टाः सततप्रह्रष्टा निरर्त्तवो निर्व्जरसो विशोकाः । स्वैः कर्म्मभिहीनविशिष्टमध्याः स्वयंप्रभाः पुण्यकृतो रमन्ते ॥३२॥ नित्योत्सवं तञ्च निशाभ्य लोकं निस्तन्द्रिनिद्रारतिशोकरोगम् । नन्दो जरामृत्युवशं सदार्त्तं मेने श्मशानप्रतिमं नृलोकम् ॥३३॥ ऐन्द्रं वनं तच्च ददर्श नन्दः समन्ततो विस्मयफुल्लदृष्टिः । हर्षान्विताश्चाशरसः परीयुः सगर्वमन्योन्यमवेक्षमाणाः ॥३४॥ सदा युवत्यो मदनैककार्य्याः साधारणाः पुण्यकृतां विहाराः । दिव्याश्च निर्दोषपरिग्रहाश्च तपःफलस्थाश्रयणं सुराणाम् ॥३५॥ तासां जगुर्धीरमुदात्तमन्याः पद्मानि काश्चित् ललितं बभञ्जुः अन्योन्यहर्षात् ननृतस्तथान्याश्चिचाङ्गहाराः स्तनभिन्नहाराः ॥३६॥ पूर्व्वं तपोमूल्यपरिग्रहेण स्वर्गक्रयार्थं कृतनिश्चयानाम् । मनांसि खिन्नानि तपोधनानां हरन्ति यत्राप्सरसो लडन्त्यः ॥३७॥ कासाच्चिदासां वदनानि रेजुर्वनान्तरेभ्यश्चलकुण्डलानि । व्याविद्धपर्णेभ्य इवाकरेभ्यः पद्मानि कादम्ब विघट्टितानि ॥३८॥ ता निःसृताः प्रेक्ष्य वनान्तरेभ्यस्तडित्यताका इव तोयदेभ्यः । नन्दस्य रागेण तनुर्विवेपे जले चले चन्द्रमसः प्रभेव ॥३६॥ वपुश्च दिव्यं ललिताश्च चेष्टास्ततः स तासां मनसा जहार । कौतूहलावर्ज्जितया तु दृृष्टया संश्लेषतांदिव जातरागः ॥४०॥ स जाततर्षोऽप्सरसा पिपासुः तत्प्राप्तयेऽधिष्ठितविक्लवार्त्तः । लोलेन्द्रियाश्वेन मनोरथेन जेह्रीयमाणो न धृतिं जगाम ॥४१॥ यथा मनुष्या मलिनं हि वासः क्षारेण भूयो मलिनीकरोति । मलक्षयार्थं न मलोद्भवार्थं रजस्तथास्मै मुनिराचकर्षः ॥ ४ २॥