पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/५३

एतत् पृष्ठम् परिष्कृतम् अस्ति

6 सौन्दरनन्दं काव्यम् हर्म्यमालापरिक्षिप्तम् कुक्षिं हिमगिरेरिव ॥४३॥ वेदवेदाङ्गविदुषः तस्थुषः षट्सु कर्मसु । शान्तये वृद्धये चैव यच विप्रानजीजपन् ॥४४॥ तद्भूभेरभियोक्तृणाम् प्रयुक्तान् विनिवृत्तये । यच स्वेन प्रभावेन मृत्यैर्दण्डानजीजपन् ॥४५॥ चारित्रधनसम्पन्नान् सलज्जान् दीर्घदर्शिनः । अर्हतोऽतिष्ठपन् पैत्रे शूरान् दक्षान् कुटुम्बिनः ॥४६॥ व्यस्तैस्तैस्तैर्गुणैर्युक्तान् मतिवाग्विक्रमादिभिः । कर्मसु प्रतिरूपेषु सचिवांस्तान् न्ययूयुजन् ॥४७॥ वसुमद्भिरविभ्रान्तैरलंविद्यैरविस्मितैः । यद्बभासे नरैः कीर्णम् मन्दरः किन्नरैरिव ॥४८॥ यच ते दृष्टमनसः पौरोप्रीतित्तिकीर्षया । श्रीमन्त्युद्यानसंज्ञानि यशोधामान्यचौकरन् ॥४८॥ शिवाः पुष्करिणीश्चैव परमाग्र्यगुणाम्भसः । नाज्ञया चेतनोत्कर्षात् दिक्षु सर्व्वस्वचौखनन् ॥५ ० ॥ मनोज्ञा[:] श्रीमतौः प्रष्टौः1 पथिषूपवनेषु च । सभाः कूपवतोश्चैव समन्तात् प्रत्यतिष्ठिपन् ॥५१॥ हस्त्यश्वरथसङ्कीर्णं असङ्कीर्णमनाकुलम् । अनिगूढार्थर2 विभवम् निगूढज्ञानपौरुषम् ॥५२॥ १. P. M. षष्ठीः । २PM. ्निगूढार्थिः ।