पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/६४

एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयः सर्गः १७ तृतीयः सर्गः तपसे ततः कपिलवास्तु हयगजरथौघसङ्कुलम् । श्रीमदभयमनुरक्तजनं स विहाय निश्चितमना वनं ययौ ॥१॥ विविधागमास्तपस्मितांश्च विविधनियमाश्रयान् मुनीन् प्रेक्ष्य । स विषयह्रषाकृपणान् अनवस्थितं तम इति न्यवर्त्तत ॥२॥ अथ मोक्षवादिनमराडमुपशममतिं तथोदृ्कम् । तत्त्वकृतमतिरुपास्य जहावयमप्यमार्ग इति मार्गकोविदः ॥३॥ स विचारयन् जगति किन्नु परममिति तन्तमागमम् । निश्चयमनधिगतः परतः परमं चचार तप एव दुष्करम् ॥४॥ अथ नैषमार्ग इति वीक्ष्य तदपि विपुलं जहौ तपः । व्याधि विषयमवगम्य परम् बुभुजे नरान्नममृतत्वबुद्धये ॥५॥ स सुवर्णपीनथुगवाहुः ऋषभगतिरायतेक्षणाः । प्लक्षमवनिरुहमभ्यगमत् परमस्य निश्चयविधेर्बुभुत्सया ॥६॥ उपविश्य तच कृतबुद्धिरचलतिरद्रिराजवत् । मारबलमजयदुग्रमथो बुबुधे पदं शिवमहार्य्यमव्ययम् ॥७॥ अवगम्य तं च कृतकार्यममृतमनसो दिवौकसः । हर्षमतुलमगमन्मुदिता विमुखौ तु मारपरिषत् प्रचुक्षुभे ।।८।। सनगा च भूः प्रविचचाल इतवहसखः शिवो ववौ । नेदुरपि च सरदुन्दुभयः प्रववर्ष चाम्बुधरवर्जितं नभः ४८ ॥ १ P. L. M. ध्यान । २ P... ** ३ P.M. प्रियो। 2