पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/७६

एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चमः सर्गः̟ २६ नन्दस्तु दुःखेन विचेष्टमानः शनैरगत्या गुरुमन्वगच्छत् । भार्य्यामुखं वीक्षणलोलनेत्रं विचिन्तयन्नार्द्रविशेषकं तत् ॥१८॥ ततो मुनिस्तम् प्रियमाल्यहारम् वसन्तमासेन कृताभिहारम् । निनाय भग्नप्रमदाविहारं विद्याविहाराभिमतं विहारम् ॥२०॥ दौनं महा[का]रुणिकस्ततस्तम् दृष्ट्वा मुहूर्त्तं करुणायमानः । करेण चक्राङ्कतलेन मूर्ङध्नि पस्पर्श चैवेदमुवाच चैनम् ॥२१॥ यावन्न हिंस्रस् समुपैति कालः प्रभाव तावद् कुरु सौम्य बुद्धिम् । सर्व्वास्ववस्थास्विह वर्तमानं सर्व्वाभिसारेण निहन्ति मृत्युः ॥२२॥ साधारणात्' स्वप्ननिभादसारात् लोलं मनः कामसुखान्नियच्छ । हव्यैरिवाग्ने पवनेरितस्य लोकस्य कामैर्न हि तृप्तिरस्ति ॥२३॥ श्रद्धाधनं श्रेष्ठतमं धनेभ्यः प्रज्ञारसस्तृप्तिकरो रसेभ्धः । प्रधानमध्यात्मसुखं सुखेभ्योऽविद्यारतिः दुःखतमा रतिभ्यः ॥१४॥ हितस्य वक्ता प्रवरः सुमो धर्माथ खेदो गुणवान् श्रमेभ्यः । ज्ञानाय कृत्यम् परमं प्रियाभ्यः किमिन्द्रियानामुपगम्य दास्यम् ॥२५॥ तनिश्चितं भौक्लमशुग्वियुक्तम् परेष्वनायत्तमहार्य्यमन्यैः । नित्यं शिवं शान्तिसुखं वृणीष्व किमिन्द्रियार्थार्थमनर्थमूढ्वा ॥२६॥ जरा समा नास्त्यमृजा प्रजानाम् व्याधेः समो नास्ति जगत्यनर्थः । मृत्योः समं नास्ति भयं पृथिव्यां एतत्त्रयं खल्ववशेन सेव्यम् ॥२७॥ स्नेहेन कश्चिन्न समोऽस्ति पाशः स्रोतो न तृष्णासममस्ति हारि । रागाग्निना नास्ति समस्तथाग्निस्तश्चेत् क्यं नास्ति सुखं च तेऽस्ति ॥२८॥ अवश्यभावी प्रियविप्रयोगः तस्माच्च शोको नियतं निषेव्यः । भोकेन चोन्मादमुपेयिवांसो राजर्षयोन्येऽप्यवशा विचेलुः ॥२८॥