पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/८३

एतत् पृष्ठम् परिष्कृतम् अस्ति

सौन्दरनन्दं काव्यम् रुकमाङ्गपादे शयने महार्हे न शर्म लेभे परिचेष्टमाना ॥३१॥ संदृश्य भर्त्तुश्च विभूषणानि वासांसि वीणाप्रभृतीश्च लौडाः । तमो विवेशाभिननाद चोच्चैः पङ्कावतीर्णेव च संससाद ॥३२॥ सा सुन्दरी श्वासचलोदरी हि वज्राग्निसंभिन्नदरीगुहेव । शोकाग्निनान्तर्ह्रदि दह्यमाना विभ्रान्तचित्तेव तदा बभूव ॥३३॥ सरोद मम्झौ विरुराव जग्लौ बभ्राम तस्थौ विललाप दधौ । चकार रोष विचकार माल्यं चकर्त्त वक्त्रं विचकर्ष वस्त्रम् ॥३४॥ तां चारुदन्तीं प्रसभं रुदन्तीं संश्रुत्य नार्य्यः परमाभितप्ताः । अन्तर्गृहादारुरुर्विमानं त्रासेन किन्नर्थ इवाट्रिपृष्ठम् ॥३५॥ बाष्पेण ताः क्लिन्नविषलवक्त्रा वर्षेण पद्मिन्य इवार्द्रपद्माः । स्वानानुरूपेण यथाभिमानं निलिखिरे तामनुदह्यमानाः ॥३६॥ ताभिर्वृता हर्म्यतलेऽङ्गनाभिश्चिन्तातनुः सा सुतनुर्बभासे । भतड्दाभिः परिवेष्टिवेव शशाङ्कलेखा शरदभ्रमध्ये ॥३७॥ या तच तासां वचसोपपन्ना मान्या च तस्था वयसाधिका च । सा पृष्टतस्तां तु समालिलिङ्गे प्रमृज्य चाश्रूणि वचांस्युवाच ॥३८॥ राजर्षिवध्वास्तव नानुरूपो धर्म्माश्रिते भर्तरि जातु शोकः । इक्ष्वाकुवंशे ह्यभिकाङ्क्षितानि दायाद्यभूतानि तपोवनानि ॥३६॥ प्रायेण मोक्षाय विनिःसृतानाम् शाक्यर्षभाणां विदिताः स्वियस्ते । तपोवनानीव गृहाणि यासां साध्वीव्रतं कामवदाश्रितानाम् ॥४०॥ यद्यन्यया रूपगुणाधिकत्वात् भर्त्ता इतस्ते कुरु बाष्पमोचम् । १ P. M. च। २P.M. स्त्रियस्ता। ३ P. M. साध्वियधं, P. L. M. सावित्रतम् T.