पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/८६

एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तमः सर्गः 39 गन्धं वमन्तोपि च गन्धपूर्णा गन्धर्व्वदेश्या व गन्धपूर्णाः । तस्थान्यचित्तस्य शुगात्मकस्य' घ्राणं न जगुर्हृदयं प्रतेपुः ॥१०॥ संरक्तकण्ठैरपि नीलकण्ठैः तुष्टैः प्रहृष्टैरपि चान्य पुष्टैः । लेलिह्यमानैश्च मधु द्विरेफैः स्वनद्वनं तस्य मनो नुनोद ॥११॥ स तत्र भार्य्यांरणिसम्भवेन वितर्कधूमेन तमःशिखेन । कामाग्निनान्तर्हदिदह्यमानो विहाय धैर्य्यं विललाप तत्तत् ।। १२॥ अद्यावगच्छामि सुदुष्करं ते चक्रुः करिष्यन्ति च कुर्व्वते च । त्यक्ता प्रियामश्रुमुखीं तपो ये चेरुश्चरिष्यन्ति चरन्ति चैव ॥१३॥ तावद्दृढं बन्धनमस्ति लोके न दारवं तान्तव मायसं वा । यावद्दृढं बन्धनमेतदेव मुखं चलाक्षम् ललितञ्च वाक्यम् ॥१४॥ छित्त्वा च भित्त्वा च हि यान्ति तानि स्वपौरुषाच्चैव सुह्रद्बलाञ्च । ज्ञानाच्च रौक्ष्याच्च विना विमोक्तुं न शक्यते स्नेहमयस्तु पाशः ॥१५॥ ज्ञानं न मे तच्च शमाय यत् स्यात् न चास्ति रौक्षं करणात्मकोस्मि । कामात्मकश्चास्मि गुरुश्च बुद्धः स्थितोऽन्तरे चक्रगतेरिवास्मि ॥१६॥ अहं गृहीत्वापि हि भिक्षुलिङ्गं भ्रातृषिणा द्विगुरुणानुशिष्टः । सर्व्वास्ववस्थासु लभे न शान्तिं प्रियावियोगादिव चक्रवाकः ॥१७॥ अद्यापि तन्मे हृदि वर्तते च यदर्पणे व्याकुलिते मया सा । कृतानृतक्रोधकमब्रवीन्मां कथं कृतोसौ ति शठं हसन्तौ ॥१८॥ १ P. M. सुखात्मकस्य । २ P. M. ध्रुः ।

  • P. L. M.

संरक्तकण्ठैच विनील। 8 P. M. nargate P. L. M. has only the lower halves of the five letters remaining. ५P.M. तदविदहमानो। ६ P.M. तथा थे। P.M. आकार। < P. M. patate ।