पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/८९

एतत् पृष्ठम् परिष्कृतम् अस्ति

४२ सौन्दरनन्दं काव्यम् नप्ता शशाङ्कस्य यशोगुणाङ्को बुधस्य सूनुर्विबुधप्रभावः । तथोर्व्वंशोमप्सरसं विचिन्त्य राजर्षिरुन्मादमगच्छदैडः ॥३८॥ रक्रो गिरेर्मूर्द्धनि मेनकायां कामात्मकत्त्वाच्च स तालजङ्घः । पादेन विश्वावसुना सरोषम् वज्रेण हिंतास्व इवाभिजघ्ने ॥२८॥ नाशङ्गतायां परमाङ्नायां गङ्गाजलेऽनङ्गपरौतचेताः । जहुश्च गङ्गां नृपतिर्भुजाभ्याम्' रुरोध मैनाक इवाचलेन्द्रः ॥४०॥ भूपश्च गङ्गाविरहात् जुघूर्ण गङ्गाम्भसा शाख इवात्तमूलः । कुलप्रदीपः प्रतिपस्य सूनुः] श्रीमत्तनु(:] शान्तनुरस्वतन्त्रः ॥४१॥ हृताञ्च सौनन्दकिनानुशोचन प्राप्तामिवोब्बौं' स्वियमुर्मुशीं तां । सदृत्तवर्मा किल सोमवा बभ्राम चित्तोद्भवभिन्नधर्मा ॥४२॥ भार्य्यां मृतां चानुममार राजा भौमप्रभावो भुवि भौमकः सः । बलेन सेनाक इति प्रकाशः सेनापतिर्देव इवार्त्तसेनः ॥४३॥ स्वर्गं गते भर्तरि शान्तनौ च कालीं जिहीर्षन् जनमेजयः सः । अवाप भौमात् समवेत्य मृत्यु न तद्गतं मन्मथमुत्ससर्ज ॥४४॥ शप्तश्च पाण्डुर्मदनेन नूनम् स्त्रीसङ्गमे मृत्युमवास्यसीति । जगाम माद्रीं न महर्षिशापात् असेव्यमेतत् विममर्ष मृत्युम् ॥४५॥ एवंविधा देवनृपर्षिसङ्घा स्त्रीणां वशं कामवशेन जग्मुः । धिया च सारेण च दुर्बलः स प्रियामपश्यन् किमु विक्लवोऽहम् ॥४६॥ थास्यामि तस्मात् गृहमेव भूयः कामं करिष्ये विधिवत्सकामम् । नह्यन्यचित्तस्य चलेन्द्रियस्थ लिङ्गं क्षमं धर्म्मपथाच्च्युतस्य ॥४७॥ . १P. M. मनामक ।