तेनोनितात् कोटिगुणाद् द्विनिघ्ना- |
( जीवायाश्चापानयन फलानयनं च )
चापार्हमौर्व्याः प्रथमं स्वकोटिं |
भवति । लब्धसंख्यां चतुर्विशतेविंशोध्य शिष्टसंख्यासमा पठितज्या कोटिज्या भवति । ‘शरीर’-हरण-शिष्टकलाभिः कृत्स्नं व्यासं हरेत् । लब्धो हारो नाम । हारेण दोर्गुण विभज्य लब्धं फल कोटिज्यातो विशोध्य तां कोटिज्याँ द्विगुणीकृत्य हारेण हृत्वाऽऽप्तं फलं भुजाज्यायां योजयेत्। सा भुजाज्या स्पष्टा भवति। पुनस्तत्फलसंस्कृतां च दोर्ज्याँ एकीकृत्य ततो हाराप्तेन फलेन हीना कोटिज्यापि स्पष्टा भवति ।
यदि पुनः 'शरीर-हरणे न्यूनसंख्याभिलिप्ताभिर्हारक आनीयते तदा द्वयोर्भुजाकोटिज्ययोर्व्यस्तं संस्क्रियताम् , भुजाज्यायाम् ऋणं, कोटिज्यायां धनं चेति । अथवा तयोर्भुजाकोटिज्ययोः या अल्पा तामुक्तवत् प्रसाध्य तस्या वर्ग व्यासार्धवर्गाद् विशोध्य शिष्टस्य मूलम् इतरा ज्या भवति ॥ ६-८ ॥
अथ जीवायाश्चापानयनमाह-चापार्हमौर्व्या इति । चापार्हाया जीवायाः प्रथमं स्वकोटिज्यामानयेत् । तत्प्रकारस्तु 'या वा तयोः' (श्लो० ३.८ c-d)
मूलम् :- 1. A,C,D,F. & Itäàfàei (wr.)
2. B.G.H. याल्पा तयोस्तत्कृतिहीनतो वा
एफुटनिर्णयतन्त्रमू-३