पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/१५

एतत् पृष्ठम् परिष्कृतम् अस्ति
हरिहरसुभाषितम्


वपूंषि जनयन्त्येव जन्तून्यूकादिकानपि ।
तेषु द्वेषवतः प्रीतिरविनीते सुते कुतः ॥ ४३ ॥

अप्यनेकैरुपचितैर्दुर्विनीतैः सुतैरलम् ।
निदर्शनं धार्तराष्ट्राः शतं दुर्योधनादयः ॥ ४४ ॥

एकेनापि विनीतेन सुतेनोद्ध्रियते कुलम् ।
गङ्गावतारणापारप्रथं पश्य भगीरथम् ॥ १५॥

नीचैरेव परं सर्पत्पयोऽप्युच्चैर्नयेन्नरः ।
विरलास्तरलाक्षाणां बालानां शिक्षणे क्षमाः ॥ ४६॥

पुरा हि पतितः प्राह प्रवाहे निष्प्रतिक्रियः ।
बालानाध्यापयिष्यामो विपत्स्यामो वयं वरम् ॥ १७ ॥

शिशोर्दुःशिक्षणीयत्वात्सोपेक्षो न क्षणं भवेत् ।
विपुलाय फलायालं कष्टकृष्टा वसुंधरा ॥ १८ ॥

व्याहारेण विहारेण सदसत्संगमेन च ।
पुरा पुत्रं परीक्षेत चिरभाविनि पौरुषे ।। ४९ ॥

यः पुरो मधुरोदारस्तेन भारः पितुर्धृतः ।
सान्द्रस्निग्धो नदन्धीरं नीरं क्षरति वारिदः ॥ ५० ॥

शिशौ प्रविशतः प्रायः प्रतिवेशिगुणागुणौ ।
गन्धोऽन्यसंनिधेरेव संक्रामति समीरणे ॥ ५१ ॥

कदाचित्साधुतामेति पुरः शिशुरसन्मतिः ।
प्राक्पाण्डुपुत्राः कुत्रापि चीयन्ते चारुभूरुहाः ।। ५२ ।।

किमध्ययनहीनेन सुतेनातिसुबुद्धिना।
तीक्ष्णेन करवालेन किं भीरुकरवर्तिना ॥ ५३ ॥

यावन्न यौवनप्राप्तः शिक्ष्यते तावदात्मजः ।
व्यतीतकाले केदारे कर्षणैः किं करिष्यते ॥ ५४ ॥

विनयन्तु सुतान्सन्तः स्वसंपाद्याः पुनर्गुणाः ।
सर्वे कृषाणाः कुर्वन्तु बीजं सूतेऽङ्कुरं स्वतः ॥ ५५ ॥