पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/३०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२
कव्यमला

उत्थाने सभ्यानामुत्तिष्ठति याति तेषु यातेषु ।
मतमन्तरापि राज्ञो विज्ञायाशी:प्रदो बहिरुपैति ॥ ७ ॥

प्रत्यहमेवमुपास्ते सदवसरे संमतो नृपतेः ।
नाज्ञातनृपतिसंमतिरुपसर्पति संनिधिस्तस्य ॥ ८ ॥

नानवसरे नरेशं सुखयति पुरुषः प्रियोऽपि समुपास्य ।
दिवसे न शीतधामा तामादरणीयतां लभते ॥९॥

मङ्गलनिलयो भूयाश्चिरमवनी पालयञ्जीयाः ।
जय भूमिचक्रशक्र स्वस्तीत्याद्याशिषः पुरो वाच्याः ॥१०॥

राजाशिषोऽवसाने द्वित्रा नरपालपूजिताः सुधिया ।
नत्याशीर्भ्यां सभ्या.....यथोचितेन परितोष्याः ॥ ११ ॥

नीचैर्न चातिनीचैर्न सभामध्ये न हीनसंबन्धे ।
न नृपासनास्त्रवस्त्रस्पर्शेऽपि वसन्ति विद्वांसः ॥ १२॥

अत्युच्चैरतिनीचैरश्लीलमनुक्तमनुपयुक्तं च ।
न वदति नृपतिसभायामादरमीप्युर्महामनसाम् ॥ १३ ॥

नृपसचिवसंकथायां संगतमपि नाभ्युपेत्य वक्तव्यम् ।
अनधिकृतिभाषितायां वाचि विचित्ता भवन्ति धनमत्ताः ॥ १४ ॥

अनुरञ्जय राजानं मा जानञ्जातु कोपय प्रकृतीन् ।
एतद्द्व्यानुरागस्थिरया तिष्ठ प्रतिष्ठयाश्लिष्टः ॥ १५ ॥

गुणवसनभूषणाद्यैर्लभतामलमादरं नृपतेः ।
प्राप्नोति प्रियवेदी नेदीयानवसरे सुसौभाग्यम् ॥ १६ ॥

बहुवाक्यैरविरुद्धो बद्धस्पर्धी जनेन हीनेन ।
स्वमुखेन याचमानः स्वगुणश्लाघी च लाघवं भजते ॥ १७ ॥

उल्लङ्घ्य सरिदरण्यग्रामगिरीन्कामकातरा यान्तु ।
अभिसारिण्य इवान्तस्तृष्णां निगदन्ति न स्वयं सुधियः ॥ १८ ॥

वेशः स एव सगुणः स द्रविणोपार्जनोपायः ।
यत्र स्ववंशविद्यासदृशी न विशीर्यते कीर्तिः ॥ १९ ॥