पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/५७

एतत् पृष्ठम् परिष्कृतम् अस्ति
४९
हरिहरसुहषितम्

सभ्यानामनुरागं समीहमानः प्रसङ्गपतितानि ।
पद्यानि पठेन्नानाविधानि विबुधादिविषयाणि ॥१॥
सामगीतमपनीतगोचरं धाम तामरसलोचनं भजे ।
मूर्ध्नि यच्चरणवारि धारयन्धूर्जटिर्नटति पर्यटन्मुहुः ॥ २ ॥

 लम्बालकं तदालम्बे जम्बालकलुषं मुखम् ।
 दृष्टं व्यादाय विस्पष्टं मात्रा यत्राखिलं जगत् ॥ ३ ॥

वृन्दारण्यविभूतिभूतलपुषां देवद्विषामायुषां
 शेषं शेषशिरश्चिरायितधराभारावताराजिरम् ।
नन्दानन्दलतालवालमनिशोन्मादं यशोदामुदा-
 माभीरीनयनाञ्जनं किमपि तत्कैशोरमैशं नुमः ॥ ४ ॥

कुत्रासीम्त्वमिति यशोदया सरोषं संरुद्धे तनयधियान्तरङ्ग एव ।
कालिन्दीपयसि पलायितस्य विष्णोरुत्तालं हसितमलंकरोतु चेतः॥५॥

त्वं चिरोपचितरोषलक्षणं किं करोषि यमकिङ्करेक्षणम् ।
नन्दमन्दिरविसारिवारिदश्यामलं मदवलम्बनं महः ॥ ६ ॥

स्वं संभाव्य यदङ्घ्रिवारि सरिदस्पर्शन शोच्यं शिवः
 संभोगप्रतिकूलमप्यचलभूषं स्मरारेरभूत् ।
निर्माल्यप्रणयावशेन मनसा यस्याङ्गतो निर्गतं
 चक्रे मन्दिरमम्बुजन्म जगतां धाता सयास्तु वः ॥ ७ ॥

पीयतामुदधिमन्थनोद्धृतं सादरैस्तदमरैः किलामृतम् ।
कालकूटकवलस्य काटवं सोढुमीश्वरमृते न पाटवम् ॥ ८॥

संबिभर्तु भुजगेश्वरं गले भस्म लिम्पतु कलेवरे हरः ।
बंभ्रमीतु वृषभेण कः परः पार्वतीप्रणयसुन्दरः सुरः ॥९॥

प्रभवतु भुवनानां निग्रहेऽनुग्रहे वा
 ननु कलयतु देवो नानुकारं हरस्य ।
निविशति शशिलेखा किं किरीटे परेषा-
 महह वहति कस्य स्वर्धनी मूर्धनीयम् ॥ १० ॥