पृष्ठम्:हर्षचरितम् (लघुसङ्ग्रहः).pdf/२४

पुटमेतत् सुपुष्टितम्
२१
षष्ठ उच्छ्वासः ।

कुन्तलं नाम बृहदश्ववारं राज्यवर्धनस्य प्रसादभूमिं ददर्श । तस्माच्च हेलानिर्जितमालवानीकमपि गौडाधिपेन मिथ्योपचारोपचितविश्वासं मुक्तशस्त्रमेकाकिनं स्वभवन एव भ्रातरं व्यापादितमश्रौषीत् ॥

 श्रृत्वा च महातेजस्वी प्रजज्वाल । ततश्च हर इव कृतभैरवाकारः, हरिरिव प्रकटितनरसिंहरूपः परां भीषणतामयासीत् । अवादीच्च--"गोडाधिपमपहाय कस्तादृशं महापुरुषं मुक्तशस्त्रं सर्वलोकविगर्हितेन मृत्युना शमयेदार्यम् ? कां नु गतिं गमिष्यति ? कस्मिन्वा नरके पतिष्यति ? श्वपाकोऽपि क इदमाचरेत् ? केदानीं यास्यति दुर्बुद्धि:? ” इत्यभिदधत एवास्य, पितुरपि मित्रं सेनापतिः सिंहनादनामा विज्ञापितवान्--"देव, न क्वचित्कृताश्रयया मलिनया हतलक्ष्म्या विप्रलभ्यमानमात्मानं न चेतयन्ते कापुरुषाः । किं वा करोतु वराकः, येन अतिभीरुतया नित्यपराङ्मुखेन न दृष्टान्येव तेजस्विनां मुखानि । यश्चाहितहतस्वजनो मनस्विजनो विपक्षवनिताचक्षुषा ददाति जलम् , स श्रेयान् नेतरः । न च स्वप्नदृष्टनष्टेष्विव क्षणिकेषु शरीरेषु निबध्नन्ति बन्धुबुद्धिं प्रबुद्धाः । मणिप्रदीपमिव कज्जलमलो न स्पृशत्येव तेजस्विनं शोकः । स त्वं सत्त्ववतामग्रणीः, प्राग्रहरः प्राज्ञानां, प्रथमः समर्थानाम् । किं गौडाधिपेनैकेन । तथा कुरु, यथा नान्योऽपि कश्चिदाचरत्येवं भूयः । क्ष्मापतीनां शिरःसु शरत्सवितेव ललाटंतपान्प्रयच्छ पादन्यासान्” इत्युक्त्वा व्यरंसीत् ॥

 देवस्तु हर्षस्तं प्रत्यवादीत् --"करणीयमेवेदमभिहितं मान्येन । जीवति जाल्मे जगद्विगर्हिते गौडाधिपचण्डाले, जिह्रेमि पोटेव प्रतीकारशून्यं शुचा सूत्कर्तुम् । श्रूयतां मे प्रतिज्ञा । शपान्यार्यस्यैव पादपांसुस्पर्शेन--यदि परिगणितैरेव वासरैः निर्गौडां न करोमि मेदि